वांछित मन्त्र चुनें

उ॑द्भिन्द॒तीं सं॒जय॑न्तीमप्स॒रां सा॑धुदे॒विनी॑म्। ग्लहे॑ कृ॒तानि॑ कृण्वा॒नाम॑प्स॒रां तामि॒ह हु॑वे ॥

मन्त्र उच्चारण
पद पाठ

उत्ऽभिन्दतीम् । सम्ऽजयन्तीम् । अप्सराम् । साधुऽदेविनीम् । ग्लहे । कृतानि । कृण्वानाम् । अप्सराम् । ताम् । इह । हुवे ॥३८.१॥

अथर्ववेद » काण्ड:4» सूक्त:38» पर्यायः:0» मन्त्र:1


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

परमेश्वर के गुणों का उपदेश।

पदार्थान्वयभाषाः - (उद्भिन्दतीम्) [शत्रुओं को] उखाड़नेवाली, (सञ्जयन्तीम्) यथावत् जीतनेवाली, (अप्सराम्) अद्भुतरूपवाली, (साधुदेविनीम्) उचित व्यवहारवाली, (ग्लहे=ग्रहे) [अपने] अनुग्रह में (कृतानि) कर्मों को (कृण्वानाम्) करती हुई (ताम्) उस (अप्सराम्) आकाश, जल, प्राण और प्रजाओं में व्यापक [परमेश्वर] शक्ति को (इह) यहाँ पर (हुवे) मैं बुलाता हूँ ॥१॥
भावार्थभाषाः - परमेश्वर की अद्भुत शक्तियाँ सब व्यवहारों में व्याप्त हैं। मनुष्य उनका खोज लगा कर सदा सुखी रहें ॥१॥ इस सूक्त का मिलान अ० का० २ सू० २ और पिछले सूक्त से करो ॥
टिप्पणी: १−(उद्भिन्दतीम्) भिदिर् विदारणे-शतृ, ङीप्। उत्कर्षेण शत्रून् विदारयन्तीम् (संजयन्तीम्) सम्यग् जयं कुर्वतीम् (अप्सराम्) अ० २।२।३। अद्भुतरूपवतीम्। (साधुदेविनीम्) सुप्यजातौ णिनिस्ताच्छील्ये। पा० ३।२।७८। इति साधु+दिवु क्रीडाव्यवहारस्तुत्यादिषु-णिनि। उचितव्यवहारशीलाम् (ग्लहे) अक्षेषु ग्लहः। पा० ३।३।७०। इति ग्लह ग्रहणे-अप्। अनुग्रहे (कृतानि) कर्माणि (कृण्वानाम्) कुर्वाणाम् (अप्सराम्) अ० २।२।३। अप्सु आकाशजलप्राणप्रजासु सरणशीलां परमेश्वरशक्तिम् (ताम्) प्रसिद्धाम् (इह) अस्मिन् वर्त्तमानकर्मणि (हुवे) आह्वयामि ॥