वांछित मन्त्र चुनें

यत्र॑ वः प्रे॒ङ्खा हरि॑ता॒ अर्जु॑ना उ॒त यत्रा॑घा॒टाः क॑र्क॒र्यः॑ सं॒वद॑न्ति। तत्परे॑ताप्सरसः॒ प्रति॑बुद्धा अभूतन ॥

मन्त्र उच्चारण
पद पाठ

यत्र । व: । प्रऽईङ्खा: । हरिता: । अर्जुना: । उत । यत्र । आघाटा: । कर्कर्य: । सम्ऽवदन्ति । तत् । परा । इत । अप्सरस: । प्रतिऽबुध्दा: । अभूतन ॥३७.५॥

अथर्ववेद » काण्ड:4» सूक्त:37» पर्यायः:0» मन्त्र:5


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

गन्धर्व और अप्सराओं के गुणों का उपदेश।

पदार्थान्वयभाषाः - (यत्र) जहाँ (प्रेङ्खाः) उत्तम गतिवाली, (हरिताः) स्वीकार करने योग्य, (अर्जुनाः) उपार्जन करनेवाली, (उत) और (यत्र) जहाँ (आघाटाः) चेष्टा करती हुई (कर्कर्यः) उत्तम कर्म ग्रहण करनेवाली प्रजाएँ (वः) तुम्हारा (संवदन्ति) सम्वाद करती हैं। (तत्) वहाँ (अप्सरसः) हे आकाशादि में व्यापक शक्तियो ! (परा) पराक्रम से (इत) प्राप्त हो, तुम (प्रतिबुद्धाः) प्रत्यक्ष जानी हुई (अभूतन) हो चुकी हो ॥५॥
भावार्थभाषाः - उद्योगी पुरुषार्थी पुरुष परमेश्वर की महिमा साक्षात् करके आनन्दित होते हैं ॥५॥
टिप्पणी: ५−(यत्र) (वः) युष्माकम् (प्रेङ्खाः) प्र+ईखि गतौ-घञ्, टाप्। प्रकृष्टगतयः (हरिताः) हृश्याभ्यामितन्। उ० ३।९३। इति हृञ् हरणे=स्वीकारे-इतन, टाप् हरणीयाः स्वीकरणीयाः (अर्जुनाः) अर्ज अर्जने प्रतियत्ने च उनन्, टाप्। अर्जनशीलाः। प्रयत्नस्वभावाः (उत) अपि च (आघाटाः) आङ्+घट चेष्टायाम्-घञ्। चेष्टायमाणाः (कर्कर्यः) कृदाधा०। उ० ३।४०। इति डुकृञ् करणे-क, रा दानग्रहणयोः-क, ङीप्। कर्कं रातीति कर्करी। कर्मग्रहीत्र्यः प्रजाः (सम्वदन्ति) सम्वादं कुर्वन्ति। अन्यत् पूर्ववत् म० ३ ॥