वांछित मन्त्र चुनें

न॒दीं य॑न्त्वप्स॒रसो॒ऽपां ता॒रम॑वश्व॒सम्। गु॑ल्गु॒लूः पीला॑ नल॒द्यौ॒क्षग॑न्धिः प्रमन्द॒नी। तत्परे॑ताप्सरसः॒ प्रति॑बुद्धा अभूतन ॥

मन्त्र उच्चारण
पद पाठ

नदीम् । यन्तु । अप्सरस: । अपाम् । तारम् । अवऽश्वसम् । गुल्गुलू: । पीला । नलदी ।औक्षऽगन्धि: । प्रऽमन्दनी । तत् । परा । इत । अप्सरस: । प्रतिऽबुध्दा: । अभूतन ॥३७.३॥

अथर्ववेद » काण्ड:4» सूक्त:37» पर्यायः:0» मन्त्र:3


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

गन्धर्व और अप्सराओं के गुणों का उपदेश।

पदार्थान्वयभाषाः - (अप्सरसः) आकाश, जल, प्राण, और प्रजाओं में व्यापक शक्तियाँ (अपाम्) जलके (तारम्) तटको (अवश्वसम्) भरती हुई (नदीम्) नदी [नदी के समान पूर्णता] को (यन्तु) प्राप्त हों। [जो प्रत्येक] (गुल्गुलः) रक्षासाधन से रक्षित, (पीला) सबको घेरनेवाली, (नलदी) बन्धन काटनेवाली, (औक्षगन्धिः) बड़ों के योग्य गतिवाली, और (प्रमन्दनी) आनन्द देनेवाली शक्ति है। (तत्) इसलिये (अप्सरसः) हे आकाश, जल, प्राण और प्रजाओं में व्यापक शक्तियो ! (परा) पराक्रम से (इत) प्राप्त हो, तुम (प्रतिबुद्धाः) प्रत्यक्ष जानी हुयी (अभूतन) हो चुकी हो ॥३॥
भावार्थभाषाः - परमेश्वर की अनन्त गुणवाली शक्तियाँ संसार में व्याप्त हैं। मनुष्य विज्ञानपूर्वक उनसे उपकार लेकर आनन्द पावें ॥३॥
टिप्पणी: ३−(नदीम्) अ० १।८।१। नदीत्वम्। नदीवत्पूर्णताम् (यन्तु) प्राप्नुवन्तु (अप्सरसः) म० २। अप्सु आकाशजलप्राणप्रजासु व्यापनशीलाः शक्तयः (अपाम्) व्याप्तिमतां जलानाम् (तारम्) तॄ प्लवनतरणयोः-घञ्। तरणस्थानम्, तीर्थम्, नदीकूलम् (अवश्वसम्) श्वस प्राणने-क्विप्, अन्तर्भावितण्यर्थः। अवश्वासयन्तीम्। सर्वतः पूरयन्तीम् (गुल्गुलूः) अ० २।३६।७। गुड रक्षायाम्-क्विप्+गुड-कु, स्त्रियाम् ऊङ्। डलयोरैक्यम्। गुडा रक्षासाधनेन गुडिता रक्षिता शक्तिः (पीला) पील रोधने-अच्, टाप्। रोधनशीला नियामिका (नलदी) णल बन्धने-अच्+दो अवखण्डने-क, ङीप्। बन्धनच्छेदिका (औक्षगन्धिः) औक्षः, अ० २।३६।७। उक्षाः, महन्नाम-निघ० ३।३। ततः, अण्। सर्वधातुभ्य इन्। उ० ४।११८। इति गन्ध गतिहिंसायाचनेषु-इन्। महतां योग्या गतिर्यस्यः सा (प्रमन्दनी) मदिस्तुतिमोदमदस्वप्नकान्तिगतिषु-ल्युट्, ङीप्। प्रमोदयित्री, हर्षयित्री (तत्) तस्मात् (परा) पराक्रमेण (इत) गच्छत प्राप्नुत (अप्सरसः) हे अप्सरसः। आकाशजलप्राणप्रजासु व्यापनशीलाः शक्तयः। (प्रतिबुद्धाः) प्रत्यक्षज्ञाताः (अभूतन) भू सत्तायाम् लुङ्। तप्तनप्तनथनाश्च। पा० ७।१।४५। इति तकारस्य तन। अभूत। अवर्तिढ्वम् ॥