वांछित मन्त्र चुनें
245 बार पढ़ा गया

यस्मा॒न्मासा॒ निर्मि॑तास्त्रिं॒शद॑राः संवत्स॒रो यस्मा॒न्निर्मि॑तो॒ द्वाद॑शारः। अ॑होरा॒त्रा यं प॑रि॒यन्तो॒ नापुस्तेनौ॑द॒नेनाति॑ तराणि मृ॒त्युम् ॥

मन्त्र उच्चारण
पद पाठ

यस्मात् । मासा: । नि:ऽमिता । त्रिंशत्ऽअरा: । सम्ऽवत्सर: । यस्मात् । नि:ऽर्मित: । द्वादशऽअर: । अहोरात्रा: । यम् । परिऽयन्त: । न । आपु: । तेन । ओदनेन । अति । तराणि । मृत्युम् ॥३५.४॥

अथर्ववेद » काण्ड:4» सूक्त:35» पर्यायः:0» मन्त्र:4


पण्डित क्षेमकरणदास त्रिवेदी

ब्रह्मविद्या का उपदेश।

पदार्थान्वयभाषाः - (यस्मात्) जिस [परमात्मा] से (त्रिंशदराः) तीस अरोंवाले (मासाः) महीने (निर्मिताः) बने हैं, (यस्मात्) जिससे (द्वादशारः) बारह अरों [के समान महीनों]वाला (संवत्सरः) संवत् (निर्मितः) बना है। (यम्) जिस को (परियन्तः) घूमते हुए (अहोरात्राः) दिन-रात (न) नहीं (आपुः) पकड़ सके हैं। (तेन) उस (ओदनेन) बढ़ानेवाले वा अन्नरूप परमात्मा के साथ... म० १ ॥४॥
भावार्थभाषाः - परमात्मा ने दिन-रात आदि कालचक्र बनाया है परन्तु वह अनादि अनन्त होने से काल के अधिकार से बाहिर है। उसीकी उपासना सब मनुष्य करें ॥४॥
टिप्पणी: ४−(यस्मात्) ओदनात्परमेश्वरात् (मासाः) मस परिमाणे-घञ्। मस्यते परिमीयते कालोऽनेन स मासः। शुक्लकृष्णपक्षद्वयात्मकाः कालाः (निर्मिताः) रचिताः (त्रिंशदराः) रथचक्रावयवाः कीलका अराः। चक्रवदावर्तमानत्वान्मासास्तथा रूप्यन्ते। त्रिंशत्संख्याकानि दिनानि अरा इव येषां ते तथोक्ताः (संवत्सरः) अ० १।३५।४। द्वादशमासात्मकः कालः (यस्मात्) (निर्मितः) (द्वादशारः) द्वादशमासा अराइव चक्रे स्थिता यस्मिन् स तथाभूतः (अहोरात्राः) अहानि च रात्रयश्च (यम्) परमात्मानम् (परियन्तः) परिगच्छन्तः। परिवर्त्तमानाः (न) निषेधे (आपुः) प्राप्तवन्तः। अन्यत् पूर्ववत्। म० १ ॥