अ॑भा॒गः सन्नप॒ परे॑तो अस्मि॒ तव॒ क्रत्वा॑ तवि॒षस्य॑ प्रचेतः। तं त्वा॑ मन्यो अक्र॒तुर्जि॑हीडा॒हं स्वा त॒नूर्ब॑ल॒दावा॑ न॒ एहि॑ ॥
अभाग: । सन् । अप । पराऽइत: । अस्मि । तव । क्रत्वा । तविषस्य । प्रऽचेत: । तम् । त्वा । मन्यो इति । अक्रतु: । जिहीड । अहम् । स्वा । तनू: । बलऽदावा । न: । आ । इहि ॥३२.५॥
पण्डित क्षेमकरणदास त्रिवेदी
संग्राम में जय पाने का उपदेश।
