वांछित मन्त्र चुनें

संसृ॑ष्टं॒ धन॑मु॒भयं॑ स॒माकृ॑तम॒स्मभ्यं॑ धत्तां॒ वरु॑णश्च म॒न्युः। भियो॒ दधा॑ना॒ हृद॑येषु॒ शत्र॑वः॒ परा॑जितासो॒ अप॒ नि ल॑यन्ताम् ॥

मन्त्र उच्चारण
पद पाठ

सम्ऽसृष्टम् । धनम् । उभयम् । सम्ऽआकृतम् ।अस्मभ्यम् । धत्ताम् । वरुण: । च । मन्यु: । भिय: । दधाना: । हृदयेषु । शत्रव: । पराजितास: । अप । नि । लयन्ताम् ॥३१.७॥

अथर्ववेद » काण्ड:4» सूक्त:31» पर्यायः:0» मन्त्र:7


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

संग्राम में जय पाने का उपदेश।

पदार्थान्वयभाषाः - (वरुणः) श्रेष्ठ शूर (च) और (मन्युः) क्रोध (संसृष्टम्) संग्रह किया हुआ और (समाकृतम्) उगाही किया हुआ (उभयम्) दो प्रकार का [आत्मिक और सामाजिक] (धनम्) धन (अस्मभ्यम्) हमें (धत्ताम्) देवें। (पराजितासः) हारे हुए, और (हृदयेषु) हृदयों में (भियः) अनेक भय (दधानाः) रखते हुए (शत्रवः) शत्रु लोग (अप=अपक्रम्य) भागकर (नि लयन्ताम्) खिसक जावें ॥७॥
भावार्थभाषाः - शूर पुरुष यथानीति क्रोध धारण करके शत्रुओं को हराते और बहुत धन प्राप्त करके अपनी और समाज की उन्नति करते हैं ॥७॥
टिप्पणी: ७−(संसृष्टम्) सृज विसर्गे-क्त। संगृहीतम् (धनम्) वित्तम् (उभयम्) संख्याया अवयवे तयप्। पा० ५।२।४२। इति उभ-तयप्। उभादुदात्तो नित्यम्। पा० ५।२।४४। इति तयपोऽयजादेशः। उभयविधम्। आत्मिकं समाजिकं चेत्यर्थः (समाकृतम्) समानीतम् (अस्मभ्यम्) (धत्ताम्) प्रयच्छताम्। दत्ताम् (वरुणः) वरणीयः स्वीकरणीयः शूरः (च) समुच्चये (मन्युः) म० १। क्रोधः (भियः) ञिभी भये-संपदादित्वात् क्विप्। भयानि (दधानाः) धारयन्तः (हृदयेषु) मनःसु (शत्रवः) अरयः (पराजितासः) पराजिताः। अभिभूताः (अप) अपक्रम्य (नि) नितराम्। नीचैः (लयन्ताम्) लीङ् श्लेषणे-लोट्। लयं प्रलयं विनाशं प्राप्नुवन्तु। प्रच्छन्नं वर्तन्ताम् ॥