वांछित मन्त्र चुनें
189 बार पढ़ा गया

एको॑ बहू॒नाम॑सि मन्य ईडि॒ता विशं॑विशं यु॒द्धाय॒ सं शि॑शाधि। अकृ॑त्तरु॒क्त्वया॑ यु॒जा व॒यं द्यु॒मन्तं॒ घोषं॑ विज॒याय॑ कृण्मसि ॥

मन्त्र उच्चारण
पद पाठ

एक: । बहूनाम् । असि । मन्यो इति । ईडिता । विशम्ऽविशम् । युध्दाय । सम् । शिशाधि । अकृत्तऽरुक् । त्वया । युजा । वयम् । द्युऽमन्तम् । घोषम् । विऽजयाय । कृण्मसि ॥३१.४॥

अथर्ववेद » काण्ड:4» सूक्त:31» पर्यायः:0» मन्त्र:4


पण्डित क्षेमकरणदास त्रिवेदी

संग्राम में जय पाने का उपदेश।

पदार्थान्वयभाषाः - (मन्यो) हे क्रोध ! (एकः) अकेला ही तू (बहूनाम्) बहुत से शूरों का (ईडिता) सत्कार करनेवाला (असि) है। (विशंविशम्) प्रत्येक प्रजा वा मनुष्य को (युद्धाय) युद्ध के लिये (सम्) यथावत् (शिशाधि) शिक्षा दे वा तीक्ष्ण कर। (अकृत्तरुक्) हे पूर्ण कान्तिवाले ! (त्वया युजा) तुझ मित्र के साथ (वयम्) हम लोग (द्युमन्तम्) हर्षयुक्त (घोषम्) ध्वनि [सिंहनाद वा मारू गीत] (विजयाय) विजय के लिये (कृण्मसि) करते हैं ॥४॥
भावार्थभाषाः - मनुष्य क्रोधपूर्वक शत्रुओं पर धावा करके स्तुति, विजय और कीर्ति पाते हैं ॥४॥
टिप्पणी: ४−(एकः) एकएव (बहूनाम्) अनेकानां शूराणाम् (असि) भवसि (मन्यो) हे क्रोध (ईडिता) ईड-तृच्। ईडिरध्येषणाकर्मा पूजाकर्मा वा-निरु० ७।१५। याचकः। पूजकः सत्कारकः (विशंविशम्) प्रत्येकप्रजाम्। मनुष्यं वा-निघ० २।३। (युद्धाय) संग्रामाय (सम्) सम्यक् (शिशाधि) शासु अनुशिष्टौ। यद्वा शो तनूकरणे। लोटि छान्दसं रूपम्। विकरणस्य श्लौ द्वित्वमभ्यासस्येत्वम्। हेर्धित्वम्। शाधि शिक्षय। श्य तीक्ष्णीकुरु (अकृत्तरुक्) हे अछिन्नदीप्ते। संपूर्णप्रकाश ! (त्वया) (युजा) मित्रेण (वयम्) (द्युमन्तम्) दिवु मोदे-क्विप्। हर्षवन्तम् (घोषम्) सिंहनादात्मकं ध्वनिम् (विजयाय) विजयार्थम् (कृण्मसि) कृण्मः कुर्मः ॥