त्वया॑ मन्यो स॒रथ॑मारु॒जन्तो॒ हर्ष॑माणा हृषि॒तासो॑ मरुत्वन्। ति॒ग्मेष॑व॒ आयु॑धा सं॒शिशा॑ना॒ उप॒ प्र य॑न्तु॒ नरो॑ अ॒ग्निरू॑पाः ॥
पद पाठ
त्वया । मन्यो इति । सऽरथम् । आऽरुजन्त: । हर्षमाणा: । हृषितास: । मरुत्वन् । तिग्मऽइषव: । आयुधा । सम्ऽशिशाना: । उप । प्र । यन्तु । नर: । अग्निऽरूपा: ॥३१.१॥
अथर्ववेद » काण्ड:4» सूक्त:31» पर्यायः:0» मन्त्र:1
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
संग्राम में जय पाने का उपदेश।
पदार्थान्वयभाषाः - (मरुत्वन्) हे शूरवीरतावाले (मन्यो) क्रोध ! (त्वया) तेरे साथ (सरथम्) एक रथ पर चढ़ कर [शत्रुओं को] (आरुजन्तः) तोड़ते-फोड़ते हुए, (हर्षमाणाः) हर्ष मानते हुए, (हृषितासः) संतुष्ट मन, (तिग्मेषवः) तीक्ष्ण बाणोंवाले, (आयुधा) शस्त्रों को (संशिशानाः) तीक्ष्ण करते हुए, (अग्निरूपाः) अग्निरूप [अग्नि तुल्य प्रचण्ड कर्मोंवाले, अथवा सन्नद्ध कवच पहिने हुए] (नरः) हमारे नर [मुखिया लोग] (उप प्र यन्तु) व्यापकर चढ़ाई करें ॥१॥
भावार्थभाषाः - जो शूर वीर दुष्टों पर क्रोध करके चढ़ाई करते हैं, वे विजयी होते हैं ॥१॥
टिप्पणी: १−(त्वया) मन्युना (मन्यो) यजिमनिशुन्धि०। उ० ३।२०। इति मन ज्ञाने गर्वे च-युच्, अनादेशाभावः। मन्युर्मन्यतेर्दीप्तिकर्मणः क्रोधकर्मणो वध-कर्मणो वा मन्यन्त्यस्मादिषवः-निरु० १०।२९। हे क्रोध-निघ० २।१३। (सरथम्) समानं रथमारुह्य। सरथमारुह्य-निरु० १०।३०। (आरुजन्तः) आभञ्जन्तः पीडयन्तः शत्रून् (हर्षमाणाः) हृष तुष्टौ-शानच्। हर्षं कुर्वाणाः (हृषितासः) संतुष्टाः सन्तः (मरुत्वन्) अ० १।२०।१। मरुद्भिः शूरैर्युक्त (तिग्मेषवः) तीक्ष्णशराः (आयुधा) आयुधानि खड्गादीनि शस्त्राणि (संशिशानाः) शो तनूकरणे−कानच्। संश्यन्तः। तीक्ष्णीकुर्वन्तः। (उप) व्याप्तौ (प्र यन्तु) प्रकर्षेण गच्छन्तु (नरः)। नयतेर्डिच्च। उ० २।१००। इति णीञ् प्रापणे-ऋ। नेतारः (अग्निरूपाः) अग्निवत्तीक्ष्णदाहादिकर्माणः। यद्वा सन्नद्धाः कवचिनः। अग्निरूपा अग्निकर्माणः सन्नद्धाः कवचिन इति वा-निरु० १०।३० ॥
