अ॒हं सोम॑माह॒नसं॑ बिभर्म्य॒हं त्वष्टा॑रमु॒त पू॒षणं॒ भग॑म्। अ॒हं द॑धामि॒ द्रवि॑णा ह॒विष्म॑ते सुप्रा॒व्या॑ यज॑मानाय सुन्व॒ते ॥
पद पाठ
अहम् । सोमम् । आहनसम् । बिभर्मि । अहम् । त्वष्टारम् । उत । पूषणम् । भगम् । अहम् । दधामि । द्रविणा । हविष्मते । सुप्रऽअव्या । यजमानाय । सुन्वते ॥३०.६॥
अथर्ववेद » काण्ड:4» सूक्त:30» पर्यायः:0» मन्त्र:6
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
परमेश्वर के गुणों का उपदेश।
पदार्थान्वयभाषाः - (अहम्) मैं (आहनसम्) प्राप्तियोग्य (सोमम्) ऐश्वर्य को (अहम्) मैं (त्वष्टारम्) रसों के छिन्न-भिन्न करने हारे सूर्य को (उत) और (पूषणम्) पोषण करने हारी पृथिवी को और (भगम्) सेवनीय चन्द्रमा को (बिभर्भि) धारण करता हूँ। (अहम्) मैं (हविष्मते) भक्ति रखनेवाले, (सुन्वते) विद्यारस का निचोड़ करने हारे (यजमानाय) देवताओं की पूजा वा संगति करनेहारे पुरुष को (सु प्राव्या=०-णि) सुन्दर सुन्दर रक्षा योग्य (द्रविणा) अनेक धन (दधामि) देता हूँ ॥६॥
भावार्थभाषाः - परमेश्वर ने अनेक प्रकार के ऐश्वर्य और सूर्य आदि बड़े उपकारी पदार्थ रचे हैं। विद्वान् लोग विज्ञान द्वारा उनसे लाभ प्राप्त करके आनन्द भोगते हैं ॥६॥
टिप्पणी: ६−(अहम्) परमेश्वरः (सोमम्) अ० १।६।२। ऐश्वर्यम् (आहनसम्) आङ्+हन हिंसागत्योः-असुन्। सम्यक् प्रापणीयम् (बिभर्भि) धारयामि (त्वष्टारम्) अ० २।५।६। रसानां तनूकर्तारं सूर्यम् (उत) अपि च (पूषणम्) अ० १।९।१। पूषा पृथिवीनाम। निघ० १।१। पोषयित्रीं पृथिवीम् (भगम्) अ० १।१४।१। भगो भजतेः-निरु० १।७। सेवनीयं चन्द्रम् (दधामि) ददामि प्रयच्छामि (द्वविणा) द्रविणानि। धनानि (हविष्मते) हविः-अ० १।४।३। दानयुक्ताय। भक्तिविशिष्टाय (सुप्राव्या) ऋहलोर्ण्यत्। पा० ३।३।१२४। इति सु+प्र+अव रक्षणो-ण्यत्। संज्ञापूर्वको विधिरनित्यः-इति वृद्धेरभावः। सुष्ठु प्रकर्षेण अवनीयानि। रक्षणीयानि। (यजमानाय) देवपूजकाय (सुन्वते) षुञ् अभिषवे शतृ। विद्यारसस्याभिषवं मथनं कुर्वते ॥
