वांछित मन्त्र चुनें
191 बार पढ़ा गया

व्या॒घ्रं द॒त्वतां॑ व॒यं प्र॑थ॒मं ज॑म्भयामसि। आदु॑ ष्टे॒नमथो॒ अहिं॑ यातु॒धान॒मथो॒ वृक॑म् ॥

मन्त्र उच्चारण
पद पाठ

व्याघ्रम् । दत्वताम् । वयम् । प्रथमम् । जम्भयामसि । आत् । ऊं इति । स्तेनम् । अथो इति । अहिम् । यातुऽधानम् । अथो इति । वृकम् ॥३.४॥

अथर्ववेद » काण्ड:4» सूक्त:3» पर्यायः:0» मन्त्र:4


पण्डित क्षेमकरणदास त्रिवेदी

वैरी के नाश का उपदेश।

पदार्थान्वयभाषाः - (दत्वताम्) दान्तवालों में से (प्रथमम्) पहिले (व्याघ्रम्) बाघ, (आत् उ) और भी (अहिम्) साँप, (अथो) और भी (वृकम्) भेड़िये, (स्तेनम्) चोर (अथो) और भी (यातुधानम्) पीड़ा देनेवाले राक्षस को (वयम्) हम (जम्भयामसि) नष्ट करते हैं ॥४॥
भावार्थभाषाः - मनुष्य प्रयत्नपूर्वक दुष्ट जन्तुओं और उनके समान दुष्ट स्वभाववाले चोर डाकुओं और रोगों तथा दोषों को नष्ट करें ॥४॥
टिप्पणी: ४−(व्याघ्रम्) म० १। हिंसकजन्तुविशेषं शार्दूलम्। (दत्वताम्) म० २। दन्तवतां दंशनशीलानां हिंस्राणां मध्ये (वयम्) मनुष्याः (प्रथमम्) अग्रे (जम्भयामसि) म० ३। नाशयामः (आत् उ) अनन्तरमेव (स्तेनम्) स्तेन चौर्ये-पचाद्यच्। चोरम् (अथो) अनन्तरमेव (अहिम्) अ० २।५।५। आहन्तारम्। सर्पम् (यातुधानम्) अ० १।७।१। पीडाप्रदं राक्षसम् (वृकम्) म० १। अरण्यश्वानम् ॥