यौ भ॒रद्वा॑ज॒मव॑थो॒ यौ गवि॑ष्ठिरं वि॒श्वामि॑त्रं वरुण मित्र॒ कुत्स॑म्। यौ क॒क्षीव॑न्त॒मव॑थः॒ प्रोत कण्वं॒ तौ नो॑ मुञ्चत॒मंह॑सः ॥
पद पाठ
यौ । भरत्ऽवाजम् । अवथ: । यौ । गविष्ठिरम् । विश्वामित्रम् । वरुण । मित्र । कुत्सम् । यौ । कक्षीवन्तम् । अवथ: । प्र । उत । कण्वम् । तौ । न: । मुञ्चतम् । अंहस: ॥२९.५॥
अथर्ववेद » काण्ड:4» सूक्त:29» पर्यायः:0» मन्त्र:5
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
पुरुषार्थ करने का उपदेश।
पदार्थान्वयभाषाः - (यौ) जो (मित्र वरुण) मित्र और वरुण तुम दोनों (भरद्वाजम्) अन्न वा बल, वा ज्ञान के धारण करनेवाले को, (यौ) जो तुम (गविष्ठिरम्) वेदवाणी में स्थिर को, (विश्वामित्रम्) सबके मित्र को, वा सब हैं मित्र जिसके उसको, और (कुत्सम्) संगतिशील वा दोषों के कतरनेवाले को (अवथः) बचाते हो, (यौ) जो तुम दोनों (कक्षीवन्तम्) उद्योगी वा शासनशील (उत) और (कण्वम्) स्तुति करनेवाले मेधावी पुरुष को (प्र) अच्छे प्रकार (अवथः) बचाते हो। (तौ) वे तुम दोनों (नः) हमें (अंहसः) कष्ट से (मुञ्चतम्) छुड़ावो ॥५॥
भावार्थभाषाः - पुरुषार्थी, वेदों की आज्ञा पालन करनेवाले सर्वहितकारक आदिक पुरुषों के लिये समय और आत्मबल सदा अनुकूल रहते हैं ॥५॥
टिप्पणी: ५−(यौ) मित्रावरुणौ युवाम् (भरद्वाजम्) अ० २।१२।२। अन्नस्य बलस्य विज्ञानस्य वा भर्तारं धारकं पुरुषम् (अवथः) रक्षथः (गविष्ठिरम्) तत्पुरुषे कृति बहुलम्। पा० ६।३।१४। इत्यलुक्। गवियुधिभ्यां स्थिरः। पा० ८।३।५५। इति षत्वम्। गवि वाचि वेदात्मिकायां स्थिरं दृढम् (विश्वामित्रम्) मित्रे चर्षौ। पा० ६।३।१३०। इति दीर्घः। विश्वामित्रः सर्वमित्रः, सर्वं संसृतम्-निरु० २।२४। सर्वस्यैव मित्रं सर्वमेव वा तस्य मित्रम्। तं सर्वहितम् (वरुण मित्र) हे मित्रावरुणौ (कुत्सम्) स्तुव्रश्चिकृत्यृषिभ्यः कित्। उ० ३।६६। इति-कुस संश्लेषणे-स। सः स्यार्धधातुके। पा० ७।४।४९। इति सस्य तः। सद्भिः संगतिशीलम्। यद्वा कृती छेदने स प्रत्ययः। ऋकारस्य उत्वम्। दोषाणां कर्तकं छेत्तारम्। यद्वा कुत्स अवक्षेपणे चुरा०-घञ्। कुत्सयति दोषान् यः तम्। कुत्सो वज्रः-निघ० २।२०। कुत्स इत्येतत्कृन्ततेः। ऋषिः कुत्सो भवति, कर्ता स्तोमानामित्यौपमन्यवः। अत्राप्यस्य वधकर्मैव भवति तत्सख इन्द्रः शष्णं जघानेति-निरु० ३।११। (कक्षीवन्तम्) अशेर्नित्। उ० ३।१५६। इति कश गतिशासनयोः-क्सि। ततो मतुप्। मस्य वः। अन्येषामपि दृश्यते। पा० ६।३।१३७। इति दीर्घः। कक्षिर्गतिः शासनं वा विद्यते यस्मिन् स कक्षिवान् तं गतिशीलं शासनशीलं वा कक्षावान् कक्ष्यावान्.... अपि त्वयं मनुष्यकक्ष एवाभिप्रेतः स्यात्-निरु० ६।१०। (प्र) प्रकर्षेण (उत) अपि च (कण्वम्) अ० २।२५।३। अशूप्रुषिलटिकणि०। उ० १।१५१। इति कण शब्दे निमीलने वा-क्वन्। कणति स्तौति यद्वा निमीलयति दोषान् स्वज्ञानेन, तं मेधाविनम्-निघ० ३।१५। अन्यत्पूर्ववत् ॥
