187 बार पढ़ा गया
यौ श्या॒वाश्व॒मव॑थो वध्र्य॒श्वं मित्रा॑वरुणा पुरुमी॒ढमत्त्रि॑म्। यौ वि॑म॒दमव॑थः स॒प्तव॑ध्रिं॒ तौ नो॑ मुञ्चत॒मंह॑सः ॥
पद पाठ
यौ । श्यावऽअश्वम् । अवथ: । वध्रिऽअश्वम् । मित्रावरुणा । पुरुऽमीढम् । अत्त्रिम् । यौ । विऽमदम् । अवथ: । सप्तऽवध्रिम् । तौ । न: । मुञ्चतम् । अंहस: ॥२९.४॥
अथर्ववेद » काण्ड:4» सूक्त:29» पर्यायः:0» मन्त्र:4
पण्डित क्षेमकरणदास त्रिवेदी
पुरुषार्थ करने का उपदेश।
पदार्थान्वयभाषाः - (यौ) जो (मित्रावरुणा) मित्र और वरुण तुम दोनों (श्यावाश्वम्) ज्ञान में व्याप्ति रखनेवाले को, (वध्र्यश्वम्) मित भोजन करनेवाले को, (पुरुमीढम्) बड़े धनी को और (अत्रिम्) नित्य उद्योगी को (अवथः) बचाते हो। (यौ) जो तुम दोनों (विमदम्) मदरहित वा अदीन पुरुष को और (सप्तवध्रिम्) [पञ्च ज्ञानेन्द्रिय मन और बुद्धि इन] सात को संयम में रखनेवाले पुरुष को (अवथः) बचाते हो। (तौ) वे तुम दोनों (नः) हमें (अंहसः) कष्ट से (मुञ्चतम्) छुड़ावो ॥४॥
भावार्थभाषाः - मनुष्य समय और प्राण के संयम से ज्ञानपूर्वक, शुद्ध आहार, विहार करके निरभिमानी और अदीन अर्थात् उत्साही, स्वस्थ और धनी होके सदा आनन्दित रहते हैं ॥४॥
टिप्पणी: ४−(यौ) युवां मित्रावरुणौ (श्यावाश्वम्) कॄगॄशॄदॄभ्यो वः। उ० १।१५५। इति श्यैङ् गतौ-व। इति श्यावः। अशूप्रुषिलटि०। १।१५१। इति अशू व्याप्तौ, अश भोजने वा-क्वन्। इति अश्वः। श्यावे ज्ञाने अश्वो व्याप्तिर्यस्य तं ज्ञानव्याप्तिकम् (अवथः) रक्षथः (वध्र्यश्वम्) अदिशदिभूशुभिभ्यः क्रिन्। उ० ४।६५। इति बध बन्धने भ्वा०, वा बध संयमने चुरा०-क्रिन्। बध्रौ संयमने अश्वोऽशनं भोजनं यस्य तं मितभोजिनम् (मित्रावरुणा) म० १। अहोरात्रौ। प्राणापानौ (पुरुमीढम्) मिह सेचने-क्त। मीढं धननाम-निघ० २।१२। बहुधनयुक्तम् (अत्रिम्) म० ३। निरन्तरगतिशीलम् (विमदम्) मदी हर्षग्लेपनयोः, गर्वे च-अच्। ग्लेपनं दैन्यम्। विगतो मदोऽहङ्कारो दैन्यं वा यस्य तम्। निरहङ्कारम्। अदीनम् (सप्तवध्रिम्) बध संयमने-क्रिन् पूर्ववत्। पञ्चज्ञानेन्द्रियाणि मनो बुद्धिश्च सप्त वध्रौ संयमने यस्य तम्। अतिजितेन्द्रियम्। अन्यत् पूर्ववत् ॥
