वांछित मन्त्र चुनें
198 बार पढ़ा गया

यावा॑रे॒भाथे॑ ब॒हु सा॒कमग्रे॒ प्र चेदस्रा॑ष्ट्रमभि॒भां जने॑षु। याव॒स्येशा॑थे द्वि॒पदो॒ यौ चतु॑ष्पद॒स्तौ नो॑ मुञ्चत॒मंह॑सः ॥

मन्त्र उच्चारण
पद पाठ

यौ । आरेभाथे । इत्याऽरेभाथे । बहु । साकम् । अग्रे । प्र । च । इत् । अस्राष्ट्रम् । अभिऽभाम् ।जनेषु ।यौ । अस्य । ईशाथे इति । द्विऽपद: । यौ । चतु:ऽपद: । तौ । न: । मुञ्चतम् । अंहस: ॥२८.४॥

अथर्ववेद » काण्ड:4» सूक्त:28» पर्यायः:0» मन्त्र:4


पण्डित क्षेमकरणदास त्रिवेदी

परमेश्वर के गुणों का उपदेश।

पदार्थान्वयभाषाः - (यौ) जिन तुम दोनों ने (बहु) बहुत सा जगत् (साकम्) एक साथ (अग्रे) पूर्वकाल में (आरेभाथे) आरम्भ किया (च) और जिन तुम दोनों ने (इत्) ही (जनेषु) प्राणियों में (अभिभाम्) प्रतिभा अर्थात् बुद्धि को (प्र अस्राष्ट्रम्) अच्छे प्रकार उत्पन्न किया। (यौ) जो तुम दोनों (अस्य) इस (द्विपदः) दो पाये.... म० १ ॥४॥
भावार्थभाषाः - परमेश्वर ने सृष्टि को उत्पन्न करके प्राणियों में इष्ट अनिष्ट और सुख-दुःख जानने के लिये बुद्धि दी है, उसकी ही भक्ति से हम सदा प्रसन्न रहें ॥४॥
टिप्पणी: ४−(यौ) भवाशर्वौ (आरेभाथे) रभ राभस्ये=उपक्रमे-लुङ्। आरब्धवन्तौ (बहु) प्रभूतं जगत् (साकम्) सह (अग्रे) आदौ (प्र) प्रकर्षेण (च) (इत्) एव (अस्राष्ट्रम्) सृज विसर्गे छान्दसं लुङि रूपम्। अस्राष्ट्रम्। सृष्टवन्तौ। उत्पादितवन्तौ (अभिभाम्) भा क्विप्। प्रतिभां बुद्धिम्। (जनेषु) उत्पन्नेषु प्राणिषु। अन्यत् पूर्ववत् म० १ ॥