वांछित मन्त्र चुनें

स॑हस्रा॒क्षौ वृ॑त्र॒हणा॑ हुवे॒हं दू॒रेग॑व्यूती स्तु॒वन्ने॑म्यु॒ग्रौ। याव॒स्येशा॑थे द्वि॒पदो॒ यौ चतु॑ष्पद॒स्तौ नो॑ मुञ्चत॒मंह॑सः ॥

मन्त्र उच्चारण
पद पाठ

सहस्रऽअक्षौ । वृत्रऽहना । हुवे । अहम् । दूरेगव्यूती इति दूरेऽगव्यूती । स्तुवन् । एमि ।उग्रौ । यौ । अस्य । ईशाथे इति । द्विऽपद: । यौ । चतु:ऽपद: । तौ । न: । मुञ्चतम् । अंहस: ॥२८.३॥

अथर्ववेद » काण्ड:4» सूक्त:28» पर्यायः:0» मन्त्र:3


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

परमेश्वर के गुणों का उपदेश।

पदार्थान्वयभाषाः - (अहम्) मैं (स्तुवन्) स्तुति करता हुआ (उग्रौ) उग्र स्वभाववाले, (सहस्राक्षौ) सहस्रों व्यवहारों में व्यापक रहनेवाले वा दृष्टि रखनेवाले, (वृत्रहणा=०-णौ) शत्रुओं वा अन्धकारके नाश करनेवाले, (दूरेगव्यूती) दूर तक प्रकाश का संयोग रखनेवाले, दोनों को (हुवे) मैं पुकारता हूँ और (एमि) प्राप्त होता हूँ। (यौ) जो तुम दोनों (अस्य) इस (द्विपदः) दो पाये.... म० १ ॥३॥
भावार्थभाषाः - परमेश्वर सर्वव्यापक, सर्वदर्शक, शत्रु वा अज्ञाननाशक और सूर्य आदि लोकों का प्रकाशक है, उसकी स्तुति उपासना करके हम सदा पुरुषार्थ करें ॥३॥
टिप्पणी: ३−(सहस्राक्षौ) अ० ४।२०।४। बहुव्यवहारव्यापकौ। यद्वा। सर्वतोदत्तदृष्टी स्थूलसूक्ष्मविषयेष्वपि प्राप्तदर्शनौ। (वृत्रहणा) अ० १।२१।१। शत्रुनाशकौ। अन्धकारनिवारकौ (हुवे) आह्वयामि (अहम्) मनुष्यः (दूरेगव्यूती) दूरे+गो+यूती। दुरीणो लोपश्च। उ० २।२०। इति दुर्+इण् गतौ-रक् धातुलोपश्च। इति दूरं विप्रकृष्टम्। गमेर्डोः। उ० २।६७। इति गम्लृ गतौ-डो प्रत्ययः। ऊतियूतिजूति०। पा० ३।३।९७। इति यु मिश्रणामिश्रणयोः-क्तिन्। निपातनात् साधुः। गोर्यूतौ छन्दसि। वा० पा० ६।१।७९। इति अव् आदेशः। रश्मयो गाव उच्यन्ते-निरु० २।६। दूरे दूरदेशे गवां रश्मीनां प्रकाशानां यूतिः संयोगो ययोस्तौ। सर्वलोकप्रकाशकौ-इत्यर्थः (स्तुवन्) प्रशंसन् सन् (एमि) प्राप्नोमि (उग्रौ) तीक्ष्णस्वभावौ। अन्यत् पूर्ववत् म० १ ॥