ये उ॒स्रिया॑ बिभृ॒थो ये वन॒स्पती॒न्ययो॑र्वां॒ विश्वा॒ भुव॑नान्य॒न्तः। द्यावा॑पृथिवी॒ भव॑तं मे स्यो॒ने ते नो॑ मुञ्चत॒मंह॑सः ॥
ये इति । उस्रिया: । बिभृथ: । ये इति । वनस्पतीन् । ययो: । वाम् । विश्वा । भुवनानि । अन्त: । द्यावापृथिवी इति । भवतम् । मे । स्योने इति । ते इति । न: । मुञ्चतम् । अंहस: ॥२६.५॥
पण्डित क्षेमकरणदास त्रिवेदी
सूर्य और पृथिवी के गुणों का उपदेश।
