प्र सु॑म॒तिं स॑वितर्वाय ऊ॒तये॒ मह॑स्वन्तं मत्स॒रं मा॑दयाथः। अ॒र्वाग्वा॒मस्य॑ प्र॒वतो॒ नि य॑च्छतं॒ तौ नो॑ मुञ्चत॒मंह॑सः ॥
पद पाठ
प्र । सुऽमतिम् । सवित: । वायो इति । ऊतये । महस्वन्तम् । मत्सरम् । मादयाथ: ।अर्वाक् । वामस्य । प्रऽवत: । नि । यच्छतम् । तौ । न: । मुञ्चतम् । अंहस: ॥२५.६॥
अथर्ववेद » काण्ड:4» सूक्त:25» पर्यायः:0» मन्त्र:6
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
पवन और सूर्य के गुणों का उपदेश।
पदार्थान्वयभाषाः - (सवितः) हे सूर्य ! (वायो) हे वायु ! (ऊतये) हमारी रक्षा के लिये (सुमतिम्) सुमति और (महस्वन्तम्) तेजवाले (मत्सरम्) हर्ष को (प्र) अच्छे प्रकार (मादयाथः) तुम दोनों परिपूर्ण करो। (अर्वाक्) हमारे सन्मुख (प्रवतः) बड़ाईवाले (वामस्य) धन का (नि) नियमपूर्वक (यच्छतम्) तुम दोनों दान करो। (तौ) सो तुम दोनों (नः) हमें (अंहसः) कष्ट से (मुञ्चतम्) छुड़ावो ॥६॥
भावार्थभाषाः - मनुष्य सूर्य और वायु के गुणों का यथावत् प्रयोग करके बुद्धि, प्रताप और धन बढ़ा कर आनन्द भोगें ॥६॥
टिप्पणी: ६−(प्र) प्रकर्षेण (सुमतिम्) शोभनां बुद्धिम् (सवितः) हे सूर्य ! (वायो) हे पवन ! (ऊतये) रक्षणाय (महस्वन्तम्) तेजोवन्तम् (मत्सरम्) कृधूमदिभ्यः कित्। उ० ३।७३। इति मदी हर्षे-सरन्। मत्सरः सोमो मन्दतेस्तृप्तिकर्मणो मत्सर इति लोभनामाभिमत्त एनेन धनं भवति-निरु० २।५। हर्षम्। सोमम्। आनन्दरसम् (मादयाथः) मद तृप्तियोगे-चुरादिः। णिच्-लेट्। युवां तर्पयतं पूरयतम् (अर्वाक्) सन्मुखम् (वामस्य) धनस्य (प्रवतः) अ० ३।१।४। प्रकर्षवतः (नि) नियमेन (यच्छतम्) दाण् दाने। पाघ्राध्मा०। पा० ७।६।८८। इति यच्छ आदेशः। दानं कुरुतम्। अन्यत् पूर्ववत् ॥
