वांछित मन्त्र चुनें

तव॑ व्र॒ते नि वि॑शन्ते॒ जना॑स॒स्त्वय्युदि॑ते॒ प्रेर॑ते चित्रभानो। यु॒वं वा॑यो सवि॒ता च॒ भुव॑नानि रक्षथ॒स्तौ नो॑ मुञ्चत॒मंह॑सः ॥

मन्त्र उच्चारण
पद पाठ

तव । व्रते । नि । विशन्ते । जनास: । त्वयि । उत्ऽइते । प्र । ईरते । चित्रभानो इति चित्रऽभानो । युवम् । वायो इति । सविता । च । भुवनानि । रक्षथ: । तौ । न: । मुञ्चतम् । अंहस: ॥२५.३॥

अथर्ववेद » काण्ड:4» सूक्त:25» पर्यायः:0» मन्त्र:3


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

पवन और सूर्य के गुणों का उपदेश।

पदार्थान्वयभाषाः - [हे वायु] (तव) तेरे (व्रते) वरणीय नियम में (जनासः) सब जने (निविशन्ते) प्रवृत्त होते हैं, और (चित्रभानो) हे विचित्र प्रकाशवाले सूर्य ! (त्वयि उदिते) तेरे उदय होने पर [कामों में] (प्रेरिते) लगते हैं। (वायो) हे वायु ! (च) और (सविता) हे सूर्य ! (युवम्) तुम दोनों (भुवनानि) सब प्राणियों को (रक्षथः) बचाते हो, (तौ) तुम दोनों (नः) हमें (अंहसः) कष्ट से (मुञ्चतम्) छुड़ावो ॥३॥
भावार्थभाषाः - वायुविद्या और सूर्यविद्या से उपकार लेकर मनुष्य अनेक प्रकार के लाभ उठावें ॥३॥
टिप्पणी: ३−[हे वायो] (तव) त्वदीये (व्रते) अ० २।३०।२। वरणीये कर्मणि। नियमे (निविशन्ते) नेर्विशः। पा० १।३।१७। इति आत्मनेपदम्। नितरां वर्तन्ते (जनासः) जनाः। प्राणिनः (त्वयि) सवित्रि (उदिते) उदयं प्राप्ते सति (प्रेरिते) ईर गतौ। प्रवर्तन्ते (चित्रभानो) हे विचित्रदीप्ते सवितः (युवम्) युवाम् (वायो) (सविता) हे सवितः, त्वम् (च) (भुवनानि) भूतजातानि (रक्षथः) पालयथः। अन्यत् पूर्ववत् ॥