190 बार पढ़ा गया
यस्य॑ व॒शास॑ ऋष॒भास॑ उ॒क्षणो॒ यस्मै॑ मी॒यन्ते॒ स्वर॑वः स्व॒र्विदे॑। यस्मै॑ शु॒क्रः पव॑ते॒ ब्रह्म॑शुम्भितः॒ स नो॑ मुञ्च॒त्वंह॑सः ॥
पद पाठ
यस्य । वशास: । ऋषभास: । उक्षण: । यस्मै । मीयन्ते । स्वरव:। स्व:ऽविदे । यस्मै । शुक्र: । पवते । ब्रह्मऽशुम्भित: । स: । न: । मुञ्चतु । अंहस: ॥२४.४॥
अथर्ववेद » काण्ड:4» सूक्त:24» पर्यायः:0» मन्त्र:4
पण्डित क्षेमकरणदास त्रिवेदी
पूर्ण सुख पाने का उपदेश।
पदार्थान्वयभाषाः - (यस्य) जिस परमेश्वर के (वशासः) वशीभूत होकर (ऋषभासः) धर्म जाननेवाले ऋषि लोग (उक्षणः) सुख की वर्षा करनेवाले होते हैं, और (यस्मै) जिस (स्वर्विदे) सुख प्राप्त करानेवाले के लिये (स्वरवः) जयस्तम्भ (मीयन्ते) गाड़े जाते हैं। (यस्मै) जिसके लिये (ब्रह्मशुम्भितः) वेदों से कहा गया (शुक्रः) निर्मल सोम रस [अमृत वा मोक्षानन्द] (पवते) शुद्ध किया जाता है। (सः) वह (नः) हमें (अंहसः) कष्ट से (मुञ्चतु) छुड़ावे ॥४॥
भावार्थभाषाः - जिस परमात्मा की आज्ञापालन से ऋषि महात्मा वेदों का उपदेश करके संसार को सुख देते हैं और शूरवीर लोग शत्रुओं पर जय पाते हैं और ब्रह्मज्ञानी मोक्ष सुख प्राप्त करते हैं, वही परमात्मा हमारे कष्टों को मिटावे ॥४॥
टिप्पणी: ४−(यस्य) इन्द्रस्य परमेश्वरस्य (वशासः) असुगागमः। वशाः। अधीनाः सन्तः (ऋषभासः) अ० ३।६।४। असुगागमः। ऋषन्ति प्राप्नुवन्ति-सर्वान् मन्त्रानिति ऋषभाः। साक्षात्कृतधर्माण ऋषयः। ऋषिर्दर्शनात्-निरु० २।११। श्रेष्ठः (उक्षणः) अ० ३।११।८। उक्षाणः। बलवन्तः (यस्मै) इन्द्राय (मीयन्ते) डुमिञ् प्रक्षेपणे। स्थाप्यन्ते (स्वरवः) शॄस्वृस्निहि०। उ० १।१०। इति स्वृ शब्दोपतापयोः-उ। यूपाः। जयस्तम्भाः (स्वर्विदे) म० ३। स्वर्गप्रापकाप (शुक्रः) अ० २।११।५। शुक्रं शोचतेर्ज्वलतिकर्मणः-निरु० ८।११। निर्मलो रसवान् सोमः (पवते) गच्छति-निघ० २।१४। पूयते (ब्रह्मशुम्भितः) शुम्भ भाषणभासनहिंसासु−क्तः। ब्रह्मभिर्वेदैः शुम्भितो भाषितः कथितः। अन्यत् पूर्ववत् ॥
