यस्ये॒दं प्र॒दिशि॒ यद्वि॒रोच॑ते॒ यज्जा॒तं ज॑नित॒व्यं॑ च॒ केव॑लम्। स्तौम्य॒ग्निं ना॑थि॒तो जो॑हवीमि॒ स नो॑ मुञ्च॒त्वंह॑सः ॥
पद पाठ
यस्य । इदम् । प्रऽदिशि । यत् । विऽरोचते । यत् । जातम् । जनितव्यम् । च । केवलम् । स्तौमि । अग्निम् । नाथित: । जोहवीमि । स: । न: । मुञ्चतु । अंहस: ॥२३.७॥
अथर्ववेद » काण्ड:4» सूक्त:23» पर्यायः:0» मन्त्र:7
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
कष्ट हटाने के लिये उपदेश।
पदार्थान्वयभाषाः - (केवलम्) केवल (यस्य) जिस परमेश्वर के (प्रदिशि) शासन में (इदम्) यह [जगत्] है, अर्थात् (यत्) जो कुछ (विरोचते) चमकता है, और (यत्) जो कुछ (जातम्) उत्पन्न हुआ है (च) और (जनितव्यम्) उत्पन्न होगा। (नाथितः) मैं भक्त (अग्निम्) उस सर्वव्यापक परमेश्वर को (स्तौमि) सराहता हूँ और (जोहवीमि) बारंबार पुकारता हूँ। (सः) वह (नः) हमे (अंहसः) कष्ट से (मुञ्चतु) छुड़ावे ॥७॥
भावार्थभाषाः - जगत्पिता परमेश्वर की आज्ञा में यह सब जगत् वर्तमान है, उसीकी प्रार्थना उपासना करके मनुष्य अपने विघ्नों को हटाकर सदा धर्म में प्रवृत्त होकर प्रसन्न रहें ॥७॥
टिप्पणी: ७−(यस्य) अग्नेः परमेश्वरस्य (इदम्) परिदृश्यमानं जगत् (प्रदिशि) प्रदेशने। प्रशासने (यत्) (विरोचते) विविधं दीप्यते (यत्) (जातम्) उत्पन्नम् (जनितव्यम्) जनयितव्यम्। जनिष्यमाणम् (च) समुच्चये (केवलम्) अ० ३।१८।२। निश्चितम्। अनन्यसाधारणम् (स्तौमि) प्रशंसामि (अग्निम्) सर्वव्यापकं परमेश्वरम् (नाथितः) तदस्य संजातं तारकादिभ्य इतच्। पा० ५।२।३६। इति नाथ-इतच्। नाथः स्वामी संजातो यस्य स नाथितः। नाथवान्। भक्तः (जोहवीमि) अ० २।१२।३। पुनः पुनराह्वयामि। अन्यद् व्याख्याम् म० १ ॥
