वांछित मन्त्र चुनें

अ॒ग्नेर्म॑न्वे प्रथ॒मस्य॒ प्रचे॑तसः॒ पाञ्च॑जन्यस्य बहु॒धा यमि॒न्धते॑। विशो॑विशः प्रविशि॒वांस॑मीमहे॒ स नो॑ मुञ्च॒त्वंह॑सः ॥

मन्त्र उच्चारण
पद पाठ

अग्ने: । मन्वे । प्रथमस्य । प्रऽचेतस: । पाञ्चऽजन्यस्य । बहुऽधा । यम् । इन्धते । विश:ऽविश: । प्रविशिऽवासम् । ईमहे । स: । न: । मुञ्चतु । अंहस: ॥२३.१॥

अथर्ववेद » काण्ड:4» सूक्त:23» पर्यायः:0» मन्त्र:1


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

कष्ट हटाने के लिये उपदेश।

पदार्थान्वयभाषाः - (प्रथमस्य) सबसे पहिले वर्तमान, (प्रचेतसः) बड़े ज्ञानवाले (पाञ्चजन्यस्य) पाँच भूतों से उत्पन्न मनुष्य आदि के हितकारक (अग्नेः) सर्वव्यापक अग्नि, अर्थात् परमेश्वर का (मन्वे) में मनन करता हूँ, (यम्) जिसको [ऋषि लोग] (बहुधा) बहुत प्रकार से (इन्धते) प्रकाशित करते हैं (विशोविशः) सब प्रवेश स्थानों में (प्रविशिवांसम्) प्रवेश करनेवाले परमेश्वर को (ईमहे) हम पहुँचते हैं। (सः) वह (नः) हमें (अंहसः) पीड़ा से (मुञ्चतु) छुड़ावे ॥१॥
भावार्थभाषाः - सबके आदि कारण, सर्वज्ञ, सर्वहितकारक, सर्वव्यापक परमेश्वर की महिमा विचारते हुए मनुष्य पुरुषार्थ करके अधर्म को छोड़कर धर्म में प्रवृत्त होकर आनन्द भोगें ॥१॥
टिप्पणी: १−(अग्नेः) सर्वव्यापकस्य परमेश्वरस्य (मन्वे) मनु अवबोधने। मननं करोमि (प्रथमस्य) आद्यस्य। मुख्यस्य (प्रचेतसः) प्रकृष्टज्ञानस्य (पाञ्चजन्यस्य) पञ्चजनाः, इति मनुष्यनाम-निघ० २।३। पञ्चभिर्भूतैर्जाताः, इत्यर्थः। तस्मै हितम्। पा० ५।१।५। इति पञ्चजन-ञ्य। पञ्चजनेभ्यो मनुष्येभ्यो हितस्य (बहुधा) बहुप्रकारेण (यम्) अग्निम् (इन्धते) दीपयन्ति प्रकाशयन्ति (विशोविशः) विश आवेशने-क्विप्। सर्वप्रवेशस्थानानि। सर्वाः प्रजाः (प्रविशिवांसम्) विश प्रवेशने। छान्दसं रूपम्। प्रविशिवांसम्। प्रविष्टवन्तम्। (ईमहे) ईङ्गतौ। प्राप्नुमः। वाचामहे-निघ० ३।१९। (सः) अग्निः (नः) अस्मान् (मुञ्चतु) मोचयतु वियोजयतु (अंहसः) अ० २।४।३। अमेर्हुक्च। उ० ४।२१३। इति अम रोगे, पीडने-असुन्, हुक् च। रोगात् पीडकात् कष्टात् ॥