वांछित मन्त्र चुनें
99 बार पढ़ा गया

अ॒स्मै द्या॑वापृथिवी॒ भूरि॑ वा॒मं दु॑हाथां घर्म॒दुघे॑ इ॒व धे॒नू। अ॒यं राजा॑ प्रि॒य इन्द्र॑स्य भूयात्प्रि॒यो गवा॒मोष॑धीनां पशू॒नाम् ॥

मन्त्र उच्चारण
पद पाठ

अस्मै । द्यावापृथिवी इति । भूरि । वामम् । दुहाथाम् । घर्मदुघे इवेति घर्मदुघेऽइव । धेनू इति । अयम् । राजा । प्रिय: । इन्द्रस्य । भूयात् । प्रिय: । गवाम् । ओषधीनाम् । पशूनाम् ॥२२.४॥

अथर्ववेद » काण्ड:4» सूक्त:22» पर्यायः:0» मन्त्र:4


पण्डित क्षेमकरणदास त्रिवेदी

संग्राम में जय के लिये उपदेश।

पदार्थान्वयभाषाः - (द्यावापृथिवी) हे सूर्य और पृथिवी तुम दोनों ! (अस्मै) इस राजा के लिये (घर्मदुघे) यज्ञ की पूर्ति करनेवाली (धेनू इव) दो गौओं के समान (भूरि) बहुत (वामम्) उत्तम धन (दुहाथाम्) पूर्ण करो। (अयम्) यह (राजा) राजा (इन्द्रस्य) परमेश्वर का (प्रियः) प्रिय (गवाम्) विद्याओं का, (ओषधीनाम्) सब अन्नों का और (पशूनाम्) दोपाये और चौपाये जीवों का (प्रियः) प्रिय (भूयात्) होवे ॥४॥
भावार्थभाषाः - राजा सूर्य पृथिवी आदि सब लोकों और पदार्थों से विज्ञानपूर्वक उपकार लेकर धन संचय करे, और अनेक विद्याओं और अन्नों और सब प्राणियों की वृद्धि करके सुख प्राप्त करे ॥४॥
टिप्पणी: ४−(अस्मै) राज्ञे (द्यावापृथिवी) हे द्यावापृथिव्यौ। सूर्यभूलोकौ। तत्रस्थपदार्थाः, इत्यर्थः (भूरि) प्रभूतम् (वामम्) अर्तिस्तुसुहु०। उ० १।१४०। इति वा गतिगन्धनयोः-मन्। यद्वा। इषियुधीन्धि०। उ० १।१४५। इति वन सम्भक्तौ याचने च-मक्। नस्य आकारः। प्रशस्यम्-निघ० ३।८। धनम् (दुहाथाम्) दुग्धम्। प्रपूरयतम् (घर्मदुघे) घर्म+दुघे। घर्म इति व्याख्यातम्-अ० ४।१।२। दुहः कब्घश्च। पा० ३।२।७०। इति दुह प्रपूरणे-कप्, हस्य घश्च। टाप्। घर्मस्य यज्ञस्य प्रपूरयित्र्यौ यज्ञाय दोग्ध्र्यौ (इव) यथा (धेनू) गावौ (अयम्) (राजा) (प्रियः) हृद्यः। तर्पकः। (इन्द्रस्य) परमेश्वरस्य (गवाम्) वाणीनाम्। विद्यानाम् (ओषधीनाम्) व्रीहियवादिसस्यानाम् (पशूनाम्) द्विपाच्चतुष्पदां प्राणिनाम् ॥