वांछित मन्त्र चुनें

अ॒यम॑स्तु॒ धन॑पति॒र्धना॑नाम॒यं वि॒शां वि॒श्पति॑रस्तु॒ राजा॑। अ॒स्मिन्नि॑न्द्र॒ महि॒ वर्चां॑सि धेह्यव॒र्चसं॑ कृणुहि॒ शत्रु॑मस्य ॥

मन्त्र उच्चारण
पद पाठ

अयम् । अस्तु । धनऽपति: । धनानाम् । अयम् । विशाम् । विश्पति: । अस्तु । राजा । अस्मिन् । इन्द्र । महि । वर्चांसि । धेहि । अवर्चसम् । कृणुहि । शत्रुम् । अस्य ॥२२.३॥

अथर्ववेद » काण्ड:4» सूक्त:22» पर्यायः:0» मन्त्र:3


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

संग्राम में जय के लिये उपदेश।

पदार्थान्वयभाषाः - (अयम्) यह (धनानाम्) बहुत प्रकार के धनों का (धनपतिः) धनपति (अस्तु) होवे। (अयम्) यह (राजा) राजा (विशाम्) बहुत प्रजाओं का (विश्पतिः) प्रजापति (अस्तु) होवे। (इन्द्र) हे परमेश्वर ! (अस्मिन्) इस राज्य में (महि=महीनि) बड़े-बड़े (वर्चांसि) तेजों को (धेहि) धारण कर, (अस्य) इसके (शत्रुम्) वैरी को (अवर्चसम्) निस्तेज (कृणुहि) करदे ॥३॥
भावार्थभाषाः - राजा परमेश्वर के अनुग्रह से पुरुषार्थपूर्वक बहुत धन एकत्र करके प्रजा की रक्षा करे और महाप्रतापी होकर शत्रुओं को वश में रक्खे ॥३॥
टिप्पणी: ३−(अयम्) (अस्तु) (धनपतिः) धनानां निधीनां पालकः (धनानाम्) बहुविधधनानाम् (विशाम्) बहुप्रजानाम् (विश्पतिः) प्रजापालकः (राजा) (अस्मिन्) राजनि (इन्द्र) हे परमात्मन् (महि) सर्वधातुभ्य इन्। उ० ४।११८। इति मह पूजायाम्-इन्। सुपां सुलुक्०। पा० ७।१।३९। इति शसः सुः। महीनि महान्ति (वर्चांसि) तेजांसि (धेहि) धारय (अवर्चसम्) अतेजस्कम् (कृणुहि) कुरु (शत्रुम्) (अस्य) ॥