वांछित मन्त्र चुनें
देवता: गोसमूहः ऋषि: ब्रह्मा छन्द: जगती स्वर: गोसमूह सूक्त
192 बार पढ़ा गया

न ता अर्वा॑ रे॒णुक॑काटोऽश्नुते॒ न सं॑स्कृत॒त्रमुप॑ यन्ति॒ ता अ॒भि। उ॑रुगा॒यमभ॑यं॒ तस्य॒ ता अनु॒ गावो॒ मर्त॑स्य॒ वि च॑रन्ति॒ यज्व॑नः ॥

मन्त्र उच्चारण
पद पाठ

न । ता: । अर्वा । रेणुकऽकाट: । अश्नुते । न । संस्कृतत्रम् । उप । यन्ति । ता: । अभि । उरुऽगायम् । अभयम् । तस्य । ता: । अनु । गाव: । मर्तस्य । वि । चरन्ति । यज्वन: ॥२१.४॥

अथर्ववेद » काण्ड:4» सूक्त:21» पर्यायः:0» मन्त्र:4


पण्डित क्षेमकरणदास त्रिवेदी

विद्या के गुणों का उपदेश।

पदार्थान्वयभाषाः - (न) न तो (अर्वा) घोड़े के समान विषयासक्त, अथवा हिंसक पुरुष, और (न) न (रेणुककाटः) धूलि के कुएँ के समान गिर जानेवाला मनुष्य (ताः) जन [विद्याओं] को (अश्नुते) पाता है। (ताः) वे विद्याएँ (संस्कृतत्रम्) संस्कृत [शुद्ध] विद्याओं के रक्षक जन को (अभि) सब ओर से (उप यन्ति) आती हैं। (ताः गावः) वे विद्याएँ (तस्य) उस (यज्वनः) देवताओं के पूजनेवाले (मर्त्तस्य) मनुष्य के (उरुगायम्) बड़े प्रशंसनीय (अभयम्) निर्भय राज्य में (अनु) अनुकूलता से (विचरन्ति) विचरती हैं ॥४॥
भावार्थभाषाः - विषयी, अदृढ़स्वभाव, दुष्ट जन विद्या के उत्तम फल को नहीं पा सकते हैं। जितेन्द्रिय, विद्वानों के सत्कार करनेवाले राजा सुरक्षित राज्य में अनेक उत्तम विद्याएँ उन्नति को प्राप्त होती हैं ॥४॥
टिप्पणी: ४−(न) निषेधे (ताः) गाः। वाचः। विद्याः (अर्वा) अवद्यावमाधमार्वरेफाः कुत्सिते। उ० ५।५४। इति ऋ गतौ हिंसायां च-वन्। अर्वा, अश्वनाम-निघ० १।१४। अर्वेरणवान्-निरु० १०।३१। निकृष्टप्रतिकृष्टार्वरेफ०। इत्यमरः−२१।५४। ऋच्छति मार्गम्, ऋणोत्यन्यान्। अश्व इव विषयासक्तो हिंसको वा कुत्सितः पुरुषः (रेणुककाटः) रेणु+क+काटः। अजिवृरीभ्यो निच्च। उ० ३।३८। इति री गतिरेषणयोः-नु। इति रेणुः। कटे वर्षावरणयोः-घञ्। कस्य जलस्य काटो वर्षणं सेचनं यस्मात् स ककाटः कूपः। धूलिकूप इव पतनस्वभावः (अश्नुते) प्राप्नोति (संस्कृतत्रम्) संस्कृत+त्रैङ् रक्षणे-क। संस्कृतानां देववाणीनां शोभनविद्यानां रक्षकम् (उपयन्ति) आगच्छन्ति प्राप्नुवन्ति (अभि) आभिमुख्येन (उरुगावम्) अ० २।१२।१। बहुप्रशंसनीयम् (अभयम्) निर्भयं राज्यम् (तस्य) विद्यारक्षकस्य (ताः) (अनु) अनुकूलतया (गावः) विद्याः (मर्तस्य) हसिमृग्रिण्०। उ० ३।८६। इति मृङ् प्राणत्यागे-तन्। मारयति दोषान् स मर्तः। मनुष्यस्य (विचरन्ति) विविधं गच्छन्ति (यज्वनः) म० २। याजकस्य। देवपूजकस्य ॥