वांछित मन्त्र चुनें
देवता: गोसमूहः ऋषि: ब्रह्मा छन्द: जगती स्वर: गोसमूह सूक्त

इन्द्रो॒ यज्व॑ने गृण॒ते च॒ शिक्ष॑त॒ उपेद्द॑दाति॒ न स्वं मु॑षायति। भूयो॑भूयो र॒यिमिद॑स्य व॒र्धय॑न्नभि॒न्ने खि॒ल्ये नि द॑धाति देव॒युम् ॥

मन्त्र उच्चारण
पद पाठ

इन्द्र: । यज्वने । गृणते । च । शिक्षते । उप । इत् । ददाति । न । स्वम् । मुषायति । भूय:ऽभूय: । रयिम् । इत् । अस्य । वर्धयन् । अभिन्ने । खिल्ये । नि । दधाति । देवऽयुम् ॥२१.२॥

अथर्ववेद » काण्ड:4» सूक्त:21» पर्यायः:0» मन्त्र:2


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

विद्या के गुणों का उपदेश।

पदार्थान्वयभाषाः - (इन्द्रः) बड़े ऐश्वर्यवाला राजा (यज्वने) यज्ञ करनेवाले (च) और (गृणते) उपदेशक पुरुष को (शिक्षते) शिक्षा देता है, और (उप=उपेत्य) आदर करके (स्वम्) धन (ददाति) देता है, और (न) न (मुषायति) चुराता है, और (देवयुम्) दिव्य गुण वा विद्वानों के प्राप्त करानेवाले (रयिम्) धन को (भूयोभूयः) अधिक-अधिक (इत्) ही (वर्धयन्) बढ़ाता हुआ (अस्य) इस संसार के (अभिन्ने) अटूट (खिल्ये) कण-कण प्राप्ति के लाभ में (निदधाति) निधिरूप से रखता है ॥२॥
भावार्थभाषाः - प्रतापी राजा स्वार्थ छोड़कर विद्यादानादि में धन को व्यय करता है, विद्याबल से धन बढ़ाता हुआ संसार को बहुत लाभ पहुँचाता है ॥२॥
टिप्पणी: २−(इन्द्रः) राजा (यज्वने) सुयजोर्ङ्वनिप्। पा० ३।२।१०३। इति यज देवपूजासङ्गतिकरणदानेषु-ङ्वनिप्। यज्ञकर्त्रे (गृणते) गॄ शब्दे-शतृ। उपदेशकाय जनाय (च) (शिक्षते) उपदिशति (उप) उपेत्य (इत्) अवधारणे (ददाति) सुपात्राय प्रयच्छति (न) निषेधे (स्वम्) धनम् (मुषायति) छन्दसि शायजपि। पा० ३।१।८४। इति मुष स्तेये श्नः शायच्। मुष्णाति, चोरयति (भूयोभूयो) बहुतरम् (रयिम्) धनम्, (इत्) (अस्य) संसारस्य (वर्धयन्) समर्धयन् (अभिन्ने) अच्छिन्ने। निरुपद्रवे (खिल्ये) खिल कणश आदाने-क। ततो यत्। कणश आदानस्थाने, अप्रहते देशे भवे सुरक्षिते लाभे (निदधाति) निधिरूपेण स्थापयति (देवयुम्) मृगय्वादयश्च। उ० १।३७। इति देव+या प्रापणे-कु। देवानां दिव्यगुणानां विदुषां वा प्रापकम् ॥