186 बार पढ़ा गया
तां मे॑ सहस्रा॒क्षो दे॒वो दक्षि॑णे॒ हस्त॒ आ द॑धत्। तया॒हं सर्वं॑ पश्यामि॒ यश्च॑ शू॒द्र उ॒तार्यः॑ ॥
पद पाठ
ताम् । मे । सहस्रऽअक्ष: । देव: । दक्षिणे । हस्ते । आ । दधत् । तया । अहम् । सर्वम् । पश्यामि । य: । च । शूद्र: । उत । आर्य: ॥२०.४॥
अथर्ववेद » काण्ड:4» सूक्त:20» पर्यायः:0» मन्त्र:4
पण्डित क्षेमकरणदास त्रिवेदी
ब्रह्म की उपासना का उपदेश।
पदार्थान्वयभाषाः - (सहस्राक्षः) असंख्य दर्शन शक्तिवाला अथवा सहस्रों व्यवहारोंवाला (देवः) प्रकाशस्वरूप परमात्मा (दक्षिणे) प्रवृद्ध (हस्ते) प्रकाश के निमित्त (ताम्) उपकारशक्ति (मे) मुझ को (आ) सब ओर से (दधत्) दान कर रहा है, (तया) उस [उपकारशक्ति] से (अहम्) मैं (सर्वम्) सबको (पश्यामि) देखता हूँ, (यः च) जो कोई (शूद्रः) शोचनीय शूद्र अर्थात् मूर्ख (उत) अथवा (आर्यः) प्राप्त करने योग्य आर्य अर्थात् विद्वान् [ब्राह्मण, क्षत्रिय वा वैश्य] हो ॥४॥
भावार्थभाषाः - सर्वव्यवहारकुशल, सर्वद्रष्टा, सर्वनियन्ता जगदीश्वर की दी हुई उपकारशक्ति द्वारा मनुष्य सब मनुष्यों और पदार्थों का यथावत् विवेक करके संसार की उन्नति करे ॥४॥
टिप्पणी: ४−(ताम्) तनु विस्तारे, उपकृतौ च-ड। टाप्। विस्तृतिम् उपकृतिम् (मे) मह्यम् (सहस्राक्षः) अ० ४।१६।४। बहुदर्शकः। बहुव्यवहारवान्। असंख्यदर्शनः। (देवः) प्रकाशदानादिगुणयुक्तः परमेश्वरः (दक्षिणे) अ० ४।११।४। समर्थे। प्रवृद्धे (हस्ते) हसिमृग्रिण्०। उ० ३।८६। इति हस विकाशे-तन्। विकाशे। प्रकाशे निमित्ते (आ) समन्तात् (दधत्) ददद् वर्तते (तया) विस्तृत्या (अहम्) उपासकः (सर्वम्) शूद्रमार्यं च (पश्यामि) साक्षात्करोमि निर्णयामि (यः) (च) पक्षान्तरे (शूद्रः) शुचेर्दश्च। उ० २।१९। इति शुच शोके-रक्, चस्य दः, धातोर्दीर्घश्च। शोचनीयः। मूर्खः (उत) विकल्पे (आर्यः) ऋहलोर्ण्यत्। पा० ३।१।१२४। इति ऋ गतौ-ण्यत्। अर्त्तुं प्राप्तुं योग्यः। पूज्यः। श्रेष्ठः विद्वान्। ब्राह्मणः क्षत्रियो वैश्यो वा। महाकुलकुलीनार्यसभ्यसज्जनसाधवः-इत्यमरः, १७।३ ॥
