वांछित मन्त्र चुनें
171 बार पढ़ा गया

यद॒दो दे॒वा असु॑रां॒स्त्वयाग्रे॑ नि॒रकु॑र्वत। तत॒स्त्वमध्यो॑षधेऽपामा॒र्गो अ॑जायथाः ॥

मन्त्र उच्चारण
पद पाठ

यत् । अद: । देवा: । असुरान् । त्वया । अग्रे । नि:ऽअकुर्वत । तत: । त्वम् । अधि । ओषधे । अपामार्ग: । अजायथा: ॥१९.४॥

अथर्ववेद » काण्ड:4» सूक्त:19» पर्यायः:0» मन्त्र:4


पण्डित क्षेमकरणदास त्रिवेदी

राजा के धर्म का उपदेश।

पदार्थान्वयभाषाः - (अदः) वह (यत्) जो (अग्रे) पूर्वकाल में (त्वया) तेरे साथ होकर (देवाः) देवताओं [विद्वान् शूरों] ने (असुरान्) असुरों को (निरकुर्वत) निकाल दिया है, (ततः) उसीसे (ओषधे) हे ओषधिसमान तापनाशक राजन् ! (त्वम्) तू (अपामार्गः) संशोधक (अधि) अधिक करके (अजायथाः) प्रकट हुआ है ॥४॥
भावार्थभाषाः - मनुष्य प्रशंसनीय काम करने से ही संसार में प्रशंसा पाते हैं ॥४॥
टिप्पणी: ४−(यत्) यस्मात् (अदः) तत् (देवाः) विद्वांसः शूराः (असुरान्) सुरविरोधिनो दुष्टान् (त्वया) राज्ञा (अग्रे) पूर्वकाले (निरकुर्वत) निराकृतवन्तः। निवारितवन्तः (ततः) तस्मात् कारणात् (त्वम्) (अधि) उपरि वर्त्तमानः श्रेष्ठः सन् (ओषधे) हे ओषधिवत् तापनाशक राजन् ! (अपामार्गः) दोषाणाम् अपमार्जनशीलः संशोधकः (अजायथाः) उत्पन्नोऽभवः ॥