वांछित मन्त्र चुनें

अग्र॑मे॒ष्योष॑धीनां॒ ज्योति॑षेवाभिदी॒पय॑न्। उ॒त त्रा॒तासि॒ पाक॒स्याथो॑ ह॒न्तासि॑ र॒क्षसः॑ ॥

मन्त्र उच्चारण
पद पाठ

अग्रम् । एषि । ओषधीनाम् । ज्योतिषाऽइव । अभिऽदीपयन् । उत । त्राता । असि । पाकस्य । अथो इति । हन्ता । असि । रक्षस: ॥१९.३॥

अथर्ववेद » काण्ड:4» सूक्त:19» पर्यायः:0» मन्त्र:3


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

राजा के धर्म का उपदेश।

पदार्थान्वयभाषाः - [हे राजन् !] (ज्योतिषा इव) अपने तेज से जैसे (अभिदीपयन्) सब ओर प्रकाश फैलाता हुआ (ओषधीनाम्) ओषधितुल्य उपकारी पुरुषों में (अग्रम्) आगे-आगे (एषि) तू चलता है। (उत) और तू (पाकस्य) पक्का [दृढ़] करने योग्य अथवा रक्षायोग्य दुर्बल पुरुष का (त्राता) रक्षक (असि) है (अथो) और भी तू (रक्षसः) राक्षस का (हन्ता) हनन करनेवाला (असि) है ॥३॥
भावार्थभाषाः - प्रतापी राजा सब उपकारी पुरुषों में अग्रगामी होकर यथावत् शासन करता है ॥३॥
टिप्पणी: ३−(अग्रम्) अग्रतः (एषि) गच्छसि (ओषधीनाम्) ओषधिसमानहितकारकाणां मध्ये (ज्योतिषा) तेजसा स्वप्रतापेन (अभि दीपयन्) अभितः सर्वतः प्रकाशयन् (उत) अपि च (त्राता) रक्षिता (असि) (पाकस्य) पच पाके-घञ्। व्यक्तव्यस्य दृढीकरणीयस्य। यद्वा, इण्भीकापा०। उ० ३।४३। इति पा रक्षणे-कन्। रक्षणीयस्य दुर्बलस्य पुरुषस्य (अथो) अपि च (हन्ता) नाशयिता (रक्षसः) राक्षस्य ॥