वांछित मन्त्र चुनें
177 बार पढ़ा गया

यां ते॑ च॒क्रुरा॒मे पात्रे॒ यां च॒क्रुर्नी॑ललोहि॒ते। आ॒मे मां॒से कृ॒त्यां यां च॒क्रुस्तया॑ कृत्या॒कृतो॑ जहि ॥

मन्त्र उच्चारण
पद पाठ

याम् । ते । चक्रु: । आमे । पात्रे । याम् । चक्रु: । नीलऽलोहिते । आमे । मांसे । कृत्याम् । याम् । चक्रु: । तया । कृत्याऽकृत: । जहि ॥१७.४॥

अथर्ववेद » काण्ड:4» सूक्त:17» पर्यायः:0» मन्त्र:4


पण्डित क्षेमकरणदास त्रिवेदी

राजा के लक्षणों का उपदेश।

पदार्थान्वयभाषाः - [हे राजन् !] (याम्) जिस [हिंसा] को (ते) तेरे (आमे) भोजन में, वा (पात्रे) पानी में (चक्रुः) उन्होंने [हंसाकारियों ने] किया है, (याम्) जिसको [तेरे] (नीललोहिते=नीलरोहिते) नीलों अर्थात् निधियों की उत्पत्ति में (चक्रुः) उन्होंने किया है। (याम्) जिस (कृत्याम्) हिंसा को [तेरे] (यामे) चलने में वा (मांसे) ज्ञान वा काल वा मांस में (चक्रुः) उन्होंने किया है, (तया) उस [हिंसा] के कारण (कृत्याकृतः) हिंसाकारियों को (जहि) नाश करदे ॥४॥
भावार्थभाषाः - जो दुष्कर्मी राजा के खान, पान, धनसंचय, मार्ग, वा सत्य-सत्य जानने, वा काल के सुप्रयोग वा शरीर में विपत्ति डालें, राजा उनको यथावत् दण्ड देकर नाश कर दे ॥४॥
टिप्पणी: ४−(याम्) कृत्याम् (ते) तव (चक्रुः) कृतवन्तः ते कृत्याकृतः (आमे) अम गतिभोजनादिषु-घञ्। भोजने (पात्रे) दादिभ्यश्छन्दसि। उ० ४।१७०। इति पा पाने−त्रन्। पाने जलभाजने वा (नीललोहिते) नि नितराम् इलन्ति प्राप्नुवन्ति यं स नीलो निधिः कोशः। नि+इल गतौ-क। रुहेश्च लो वा। उ० ३।९४। इति रुह बीजजन्मनि, प्रादुर्भावे च-इतन्, रस्य लः। निधीनां प्रादुर्भावे, उत्पत्तौ (आमे) अम गतौ-घञ्। गमने (मांसे) मनेर्दीघश्च। उ० ३।६४। इति मन ज्ञाने, अर्च्चे, गर्वे, धृतौ-स प्रत्ययः, दीर्घश्च। मन्यते ज्ञायते ध्रियते वानेन तन्मांसम्। ज्ञाने। मांसः कालः, कीटः-इति शब्दकल्पद्रुमः। काले। यद्वा रक्तजधातुविशेषः (कृत्याम्) अ० ४।९।४। हिंसाक्रियाम्। विपत्तिम् (तथा) कृत्यया (कृत्याकृतः) कृत्या+डुकृञ्, करणे-क्विप्, तुक्। हिंसाकारिणः पुरुषान् हन्-लोट्। नाशय ॥