वांछित मन्त्र चुनें

श॒तेन॒ पाशै॑र॒भि धे॑हि वरुणैनं॒ मा ते॑ मोच्यनृत॒वाङ्नृ॑चक्षः। आस्तां॑ जा॒ल्म उ॒दरं॑ श्रंसयि॒त्वा कोश॑ इवाब॒न्धः प॑रिकृ॒त्यमा॑नः ॥

मन्त्र उच्चारण
पद पाठ

शतेन । पाशै: । अभि । धेहि । वरुण । एनम् । मा । ते । मोचि । अनृतऽवाक् । नृऽचक्ष: । आस्ताम् । जाल्म: । उदरम् । श्रंशयित्वा । कोश:ऽइव । अबन्ध: । परिऽकृत्यमान: ॥१६.७॥

अथर्ववेद » काण्ड:4» सूक्त:16» पर्यायः:0» मन्त्र:7


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

वरुण की सर्वव्यापकता का उपदेश।

पदार्थान्वयभाषाः - (वरुण) हे दुष्टनिवारक परमेश्वर ! (शतेन) सौ (पाशैः) फाँसों से (एनम्) इस [मिथ्यावादी] को (अभि धेहि) बाँध ले, (नृचक्षः) हे मनुष्यों के देखनेवाले ! (अनृतवाक्) मिथ्यावादी पुरुष (ते) तेरी (मा मोचि) मुक्ति न पावे। (जाल्मः) नीच अन्यायी (उदरम्) युद्ध कर्म को (श्रंसयित्वा= स्रंसयित्वा) नीचे गिराकर (परिकृत्यमानः) कटी हुई, (अबन्धः) अपने से छुटी (कोशः इव) फूल की कली के समान (आस्ताम्) बैठा रहे ॥७॥
भावार्थभाषाः - सर्वशक्तिमान् परमेश्वर के दण्ड से कोई मिथ्यावादी नहीं छूट सकता, और अधर्मी दुष्ट धर्मात्माओं के सन्मुख ऐसा गिर जाता है, जैसे फूल की अधखिली कली अधिक पवन आदि के कारण गिरकर कुम्हला जाती है ॥७॥
टिप्पणी: ७−(शतेन) बहुभिः (पाशैः) दण्डबन्धनैः (अभि धेहि) अभिपूर्वो दधातिर्बन्धने। बधान (वरुण) हे दुष्टनिवारक (एनम्) अनृतवादिनम् (ते) तव (मा मोचि) मुक्तिं न प्राप्नुयात् (अनृतवाक्) मिथ्यावादी (नृचक्षः) चक्षेर्बहुलं शिच्च। उ० ४।२३३। नृ+चक्षिङ्दर्शने-असुन्। हे नृणां मनुष्याणां साध्वसाधुचरित्राणां द्रष्टः (आस्ताम्) तिष्ठतु (जाल्मः) जल अपवारणे-म प्रत्ययः। जालयति दूरी करोति हितज्ञानमिति। पामरः। क्रूरः (उदरम्) उदि दृणातेरलचौ पूर्वपदान्त्यलोपश्च। उ० ५।१९। इति उद्+दॄ विदारे-अच्। उदो दस्य लोपः। उद्विदारणं युद्धम् (श्रंसयित्वा) स्रंसु अवस्रंसने=अधः पतने णिचि क्त्वा, सकारस्य शकारः। स्रंसयित्वा। अधः पातयित्वा (कोशः) कुश संश्लेषे-घञ्। कोशोऽस्त्री कुड्मले, इत्यमरः−२३।२१८। कुड्मलः। विकाशोन्मुखकलिका (इव) यथा (अबन्धः) बन्धेन शाखासंयोगतन्तुना विश्लिष्टः (परिकृत्यमानः) कृती छेदने-कर्मणि यक्, शानच्, मुक् च। परिच्छिद्यमानः ॥