वांछित मन्त्र चुनें
164 बार पढ़ा गया

उ॒त यो द्याम॑ति॒सर्पा॑त्प॒रस्ता॒न्न स मु॑च्यातै॒ वरु॑णस्य॒ राज्ञः॑। दि॒व स्पशः॒ प्र च॑रन्ती॒दम॑स्य सहस्रा॒क्षा अति॑ पश्यन्ति॒ भूमि॑म् ॥

मन्त्र उच्चारण
पद पाठ

उत । य: । द्याम् । अतिऽसर्पात् । परस्तात् । न । स: । मुच्यातै । वरुणस्य। राज्ञ: । दिव: । स्पश: । प्र । चरन्ति । इदम् । अस्य । सहस्रऽअक्षा: । अति । पश्यन्ति । भूमिम् ॥१६.४॥

अथर्ववेद » काण्ड:4» सूक्त:16» पर्यायः:0» मन्त्र:4


पण्डित क्षेमकरणदास त्रिवेदी

वरुण की सर्वव्यापकता का उपदेश।

पदार्थान्वयभाषाः - (उत) और (यः) जो [दुष्ट] (परस्तात्) दूर देश में (द्याम्) सूर्य लोक को (अतिसर्पात्) पार करके चुपके से रेंग जावे, (सः) वह पुरुष (वरुणस्य राज्ञः) वरुण राजा की (न मुच्यातै) मुक्ति न पासके। (दिवः) प्रकाशमान (अस्य) इस [वरुण] के (स्पशः) बन्धनसामर्थ्य (इदम्) इस [जगत्] में (प्र चरन्ति) चलते रहते हैं, [उनको] (सहस्राक्षाः) सहस्र प्रकार की दृष्टि वा व्यवहारवाले पुरुष (भूमिम् अति) भूमि के पार (पश्यन्ति) देखते हैं ॥४॥
भावार्थभाषाः - चाहे कोई दुष्कर्म करके कहीं छिप जावे, तो भी वह वरुण परमेश्वर के अखण्ड दण्ड से नहीं बच सकता। वह अपनी करनी का फल इस जन्म वा परजन्म में अवश्य पाता है ॥४॥
टिप्पणी: ४−(उत) अपि च (यः) दुष्टः (द्याम्) सूर्यलोकम् (अतिसर्पात्) सृप−लेट्। अतिक्रम्य सर्पेत् गुप्तं गच्छेत् (परस्तात्) दिक्शब्देभ्यः सप्तमीपञ्चमी०। पा० ५।३।२७। इति पर-अस्ताति। परिस्मन् दूरे देशे (न) नहि (सः) पुरुषः (मुच्यातै) मुचेः कर्मणि लेटि आडागमः वैतोऽन्यत्र। पा० ३।४।९६। इति ऐकारः। मुक्तिं प्राप्नुयात् (वरुणस्य) वरणीयस्य परमेश्वरस्य (राज्ञः) ईश्वरस्य (दिवः) प्रकाशमानस्य (स्पशः) स्पश बाधनस्पर्शनयोः−(क्विप्) बाधमानाः। बन्धाः। पाशाः (प्र चरन्ति) प्रकर्षेण गच्छन्ति (इदम्) दृश्यमानं जगत् (अस्य) वरुणस्य (सहस्राक्षाः) अ० ३।११।३। सहस्र+अक्षि-षच्। यद्वा। सहस्र+अक्ष। सहस्राणि बहूनि अक्षीणि दर्शनसामर्थ्यानि, अथवा, अक्षा व्यवहारा येषां ते तथाभूताः। बहुदर्शकाः बहुव्यवहारशीलाः पुरुषाः (अति) अतीत्य (पश्यन्ति) साक्षात्कुर्वन्ति तान् स्पशः (भूमिम्) भूलोकम् ॥