स॒मुत्प॑तन्तु प्र॒दिशो॒ नभ॑स्वतीः॒ सम॒भ्राणि॒ वात॑जूतानि यन्तु। म॑हऋष॒भस्य॒ नद॑तो॒ नभ॑स्वतो वा॒श्रा आपः॑ पृथि॒वीं त॑र्पयन्तु ॥
पद पाठ
सम्ऽउत्पतन्तु । प्रऽदिश: । नभस्वती: । सम् । अभ्राणि । वातऽजूतानि । यन्तु । महाऽऋषभस्य । नदत: । नभस्वत: । वाश्रा: । आप: । पृथिवीम् । तर्पयन्तु ॥१५.१॥
अथर्ववेद » काण्ड:4» सूक्त:15» पर्यायः:0» मन्त्र:1
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
वृष्टि की प्रार्थना और गुणों का उपदेश।
पदार्थान्वयभाषाः - (नभस्वतीः=०−त्यः) बादल से छायी हुई (प्रदिशः) दिशाएँ (समुत्पतन्तु) भले प्रकार उदय हों, (वातजूतानि) पवन से चलाये गये (अभ्राणि) जल भरे बादल (संयन्तु) छा जावें। (महऋषभस्य) बड़े गमनशील (नदतः) गरजते हुए (नभस्वतः) आकाश में छाये [बादल] की (वाश्राः) धड़ धड़ाती (आपः) जलधाराएँ (पृथिवीम्) पृथिवी को (तर्पयन्तु) तृप्त करें ॥१॥
भावार्थभाषाः - पवन द्वारा वर्षा होने से दिशाएँ निर्मल और पृथिवी अन्न आदि पदार्थ उत्पन्न करने योग्य हो जाती है, इसी प्रकार मनुष्य उपकारी बनें ॥१॥
टिप्पणी: १−(समुत्पतन्तु) सम्यग् उद्गच्छन्तु। उद्यन्तु (प्रदिशः) प्रकृष्टा दिशः (नभस्वतीः) नभः-म० ३। वा छन्दसि। पा० ६।१।१०६। इति पूर्वसवर्ण दीर्घः। नभस्वत्यः। मेघवत्यः (अभ्राणि) अभ्र गतौ=पचाद्यच्। पा० ६।१।१३४। यद्वा, अप-भृञ्-क। अपो जलानि बिभ्रति धारयन्तीति। मेघाः (वातजूतानि) जु वेगे-क्त, दीर्घत्वम्। वायुना प्रेरितानि (संयन्तु) संगच्छन्ताम् (महऋषभस्य) ऋषिवृषिभ्यां कित्। उ० ३।१२३। इति ऋष गतौ-अभच् स च कित्। महागतिशीलस्य (नदतः) गर्जतः (नभस्वतः) आकाशस्थस्य मेघस्य (वाश्राः) स्फायितञ्चिवञ्चि०। उ० २।१३। इति वाशृ शब्दे-रक्। शब्दायमानाः (आपः) जलधाराः (पृथिवीम्) भूमिम् (तर्पयन्तु) तृप्ताम् ओषधिप्ररोहणसमर्थां कुर्वन्तु ॥
