पृ॒ष्ठात्पृ॑थि॒व्या अ॒हम॒न्तरि॑क्ष॒मारु॑हम॒न्तरि॑क्षा॒द्दिव॒मारु॑हम्। दि॒वो नाक॑स्य पृ॒ष्ठात्स्व॑१र्ज्योति॑रगाम॒हम् ॥
पद पाठ
पृष्ठात् । पृथिव्या: । अहम् । अन्तरिक्षम् । आ । अरुहम् । अन्तरिक्षात् । दिवम् । आ । अरुहम् । दिव: । नाकस्य । पृष्ठात् । स्व: । ज्योति: । अगाम् । अहम् ॥१३.३॥
अथर्ववेद » काण्ड:4» सूक्त:14» पर्यायः:0» मन्त्र:3
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
ब्रह्म की प्राप्ति का उपदेश।
पदार्थान्वयभाषाः - (अहम्) मैं (पृथिव्याः) पृथिवी के (पृष्ठात्) पृष्ठ से (अन्तरिक्षम्) मध्य लोक, आकाश को (आ अरुहम्) चढ़ गया, (अन्तरिक्षात्) आकाश लोक से (दिवम्) सूर्य लोक को (आ अरुहम्) मैं चढ़ गया। (नाकस्य) सुख देने हारे (दिवः) प्रकाशमान सूर्य लोक के (पृष्ठात्) पृष्ठ से (अहम्) मैंने (स्वः) सुखस्वरूप और (ज्योतिः) ज्योतिःस्वरूप परमात्मा को (अगाम्) प्राप्त किया ॥३॥
भावार्थभाषाः - योगी पुरुष विद्याभ्यास और योगाभ्यास से पृथिवी, अन्तरिक्ष और सूर्य लोक में खोजता हुआ तुरीय अर्थात् इन तीनों से चौथे आनन्दघन, ज्योतिःस्वरूप परब्रह्म को प्राप्त करके ब्रह्मानन्द में मग्न हो जाता है ॥३॥ यह मन्त्र कुछ भेद से यजु० १७।६७। में है ॥
टिप्पणी: ३−(पृष्ठात्) तलात् (पृथिव्याः) भूमेः (अहम्) विद्वान् योगी जनः (अन्तरिक्षम्) आकाशम् (आ अरुहम्) रुह-लुङ्। आरूढवान् (अन्तरिक्षात्) आकाशात् (दिवम्) प्रकाशमानं सूर्यम् (दिवः) सूर्यस्य (नाकस्य) सुखनिमित्तस्य अन्धकारनाशकत्वात् (पृष्ठात्) उपरिभागात् (स्वः) सुखस्वरूपम् (ज्योतिः) ज्योतिःस्वरूपं परमात्मानम् (अगम्) इण् गतौ-लुङ्। आगमम्। प्राप्तवान् ॥
