क्रम॑ध्वम॒ग्निना॒ नाक॒मुख्या॒न्हस्ते॑षु॒ बिभ्र॑तः। दि॒वस्पृ॒ष्ठं स्व॑र्ग॒त्वा मि॒श्रा दे॒वेभि॑राध्वम् ॥
पद पाठ
क्रमध्वम् । अग्निना । नाकम् । उख्यान् । हस्तेषु । बिभ्रत: । दिव: । पृष्ठम् । स्व: । गत्वा । मिश्रा: । देवेभि: । आध्वम् ॥१४.२॥
अथर्ववेद » काण्ड:4» सूक्त:14» पर्यायः:0» मन्त्र:2
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
ब्रह्म की प्राप्ति का उपदेश।
पदार्थान्वयभाषाः - [हे वीरो !] (उख्यान्) पके हुए आहारों को (हस्तेषु) हाथों में (बिभ्रतः) भरे हुए तुम (अग्निना) अग्नि अर्थात् परमेश्वर के सहारे से [अथवा अपने शरीर की उष्णता वा बल से] (नाकम्) पूर्ण सुख (क्रमध्वम्) पराक्रम से प्राप्त करो। और (देवेभिः) विद्वानों के साथ (मिश्राः) मिलते हुए तुम (दिवः) व्यवहार के (पृष्ठम्) सींचने वा बढ़ानेवाले अथवा पीठ के समान सहायक (स्वः) सुखस्वरूप परमात्मा को (गत्वा) प्राप्त होकर (आध्वम्) बैठो ॥२॥
भावार्थभाषाः - मनुष्य परमेश्वर की अपार सृष्टि में पुरुषार्थपूर्वक परोपकार के लिये अन्न प्राप्त करें और विद्वानों से व्यवहार शिक्षा पाकर आनन्द भोगें ॥२॥ यह मन्त्र कुछ भेद से य० १७।६५ में है ॥
टिप्पणी: २−(क्रमध्वम्) पराक्रमेण प्राप्नुत (अग्निना) परमेश्वरसहायेन। यद्वा स्वशरीरस्थेन उष्णत्वेन (नाकम्) अकेन दुःखेन रहितं पूर्णसुखम् (उख्यान्) शूलोखाद्यत्। पा० ४।२।१७। इति उखा-“संस्कृतं भक्षाः-इत्यर्थे यत्। उखायां पाकपात्रे संस्कृतान् आहारान् (हस्तेषु) करेषु दानाय (बिभ्रतः) धरन्तः (दिवः) व्यवहारस्य (पृष्ठम्) तिथपृष्ठथूथ०। उ० २।१२। इति पृषु सेके-थक्। सेचकं वर्धकम्। यद्वा पृष्ठवत् सहायकम् (स्वः) सुखस्वरूपं परमात्मन् (गत्वा) प्राप्य (मिश्राः) मिश्रिताः। मिलिताः सन्तः (देवेभिः) देवैः। विद्वद्भिः (आध्वम्) आस उपवेशने-लोट्। उपविशत् ॥
