वांछित मन्त्र चुनें

स उत्ति॑ष्ठ॒ प्रेहि॒ प्र द्र॑व॒ रथः॑ सुच॒क्रः सु॑प॒विः सु॒नाभिः॒। प्रति॑ तिष्ठो॒र्ध्वः ॥

मन्त्र उच्चारण
पद पाठ

स: । उत् । तिष्ठ । प्र । इहि । प्र । द्रव । रथ: । सुऽचक्र: । सुऽपवि: । सुऽनाभि: । प्रति । तिष्ठ । ऊर्ध्व: ॥१२.६॥

अथर्ववेद » काण्ड:4» सूक्त:12» पर्यायः:0» मन्त्र:6


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

अपने दोष मिटाने का उपदेश।

पदार्थान्वयभाषाः - (सः=स त्वम्) सो तू (उत्तिष्ठ) उठ, (प्रेहि) आगे बढ़, (सुचक्रः) सुन्दर पहियेवाले, (सुपविः) दृढ़ नेमि वा पुट्ठीवाले, (सुनाभिः) सुन्दर मध्य छिद्रवाले (रथः) रथ [के समान] (प्र द्रव) वेग से चल और (ऊर्ध्वः) ऊँचा होकर (प्रति तिष्ठ) प्रतिष्ठित हो ॥६॥
भावार्थभाषाः - मनुष्य प्रयत्नपूर्वक आगे बढ़कर प्रतिष्ठा प्राप्त करे, जैसे उत्तम शिल्पी का बनाया हुआ सुदृढ़ रथ अन्य रथों से आगे निकल जाता है ॥६॥
टिप्पणी: ६−(सः) तादृशो विचारवान् त्वम् (उत्तिष्ठ) उद्गच्छ। सावधानो भव (प्रेहि) प्रकर्षेण गच्छ (प्रद्रव) प्रधाव (रथः) हनिकुषिनीरमि०। उ० २।२। इति रमु क्रीडायाम्, वा रंहतेर्गतिकर्मणः क्थन्। रथो रंहतेर्गतिकर्मणः स्थिरतेर्वा स्याद् विपरीतस्य रममाणोऽस्मिंस्तिष्ठतीति वा रपतेर्वा रसतेर्वा-निरु–० ९।११। वेगवान्। स्यन्दनो यथा (सुचक्रः) सुदृढैश्चक्रैर्युक्तः (सुपविः) सुदृढः पविर्नेमिश्चक्रधारा यस्य स तथोक्तः (सुनाभिः) दृढया नाभ्या, अच्छिद्रेण युक्तः (प्रति तिष्ठ) प्रतिष्ठितो भव (ऊर्ध्वः) उत्थितः सन् ॥