213 बार पढ़ा गया
म॒ज्जा म॒ज्ज्ञा सं धी॑यतां॒ चर्म॑णा॒ चर्म॑ रोहतु। असृ॑क्ते॒ अस्थि॑ रोहतु मां॒सं मां॒सेन॑ रोहतु ॥
पद पाठ
मज्जा । मज्ज्ञा । सम् । धीयताम् । चर्मणा । चर्म । रोहतु । असृक् । ते । अस्थि । रोहतु । मांसम् । मांसेन । रोहतु ॥१२.४॥
अथर्ववेद » काण्ड:4» सूक्त:12» पर्यायः:0» मन्त्र:4
पण्डित क्षेमकरणदास त्रिवेदी
अपने दोष मिटाने का उपदेश।
पदार्थान्वयभाषाः - (मज्जा) हाड़ की मींग (मज्ज्ञा) हाड़ की मींग से (सं धीयताम्) मिल जावे, (चर्म) चाम (चर्मणा) चाम के साथ (रोहतु) जम जावे। (ते) तेरा (असृक्) रुधिर और (अस्थि) हाड़ (रोहतु) जमे, और (मांसम्) मांस (मांसेन) मांस के साथ (रोहतु) जमे ॥४॥
भावार्थभाषाः - मन्त्र ३ के समान ॥४॥
टिप्पणी: ४−(मज्जा) अस्थिस्नेहः (मज्ज्ञा) अस्थिस्नेहेन (सं धीयताम्) संहितः संयुक्तो भवतु (चर्मणा) सर्वधातुभ्यो मनिन्। उ० ४।१४५। इति चर गतौ-मनिन्। शरीरावरणम् (चर्म) त्वचा (रोहतु) प्ररूढं भवतु संयुज्यताम् (असृक्) असु क्षेपे-ऋजि प्रत्ययः। अस्यते। क्षिप्यते इतस्ततो नाडीभिः। रुधिरः। अन्यत् सुगमम् ॥
