वांछित मन्त्र चुनें

दे॒वाना॒मस्थि॒ कृश॑नं बभूव॒ तदा॑त्म॒न्वच्च॑रत्य॒प्स्वन्तः। तत्ते॑ बध्ना॒म्यायु॑षे॒ वर्च॑से॒ बला॑य दीर्घायु॒त्वाय॑ श॒तशा॑रदाय कार्श॒नस्त्वा॒भि र॑क्षतु ॥

मन्त्र उच्चारण
पद पाठ

देवानाम् । अस्थि । कृशनम् । बभूव । तत् । आत्मन्ऽवत् । चरति । अप्ऽसु । अन्त: । तत् । ते । बध्नामि । आयुषे । वर्चसे । बलाय । दीर्घायुऽत्वाय । शतऽशारदाय । कार्शन: । त्वा । अभि । रक्षतु ॥१०.७॥

अथर्ववेद » काण्ड:4» सूक्त:10» पर्यायः:0» मन्त्र:7


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

विघ्नों के हटाने के लिये उपदेश।

पदार्थान्वयभाषाः - (कृशनम्) सूक्ष्म रचना करनेवाला ब्रह्म (देवानाम्) दिव्य गुणों और प्रकाशमान पदार्थों का (अस्थि) प्रकाशक (बभूव) हुआ था। (तत्) विस्तृत ब्रह्म (अप्सु अन्तः) अन्तरिक्ष के भीतर [ठहरे हुए] (आत्मन्वत्) आत्मावाले जगत् में (चरति) विचरता है। [हे प्राणी !] (तत्) उस ब्रह्म को (ते) तेरे (आयुषे) लाभ के लिये, (वर्चसे) तेज वा यश के लिये (बलाय) बल के लिये, और (शतशारदाय) सौ शरद् ऋतुओंवाले (दीर्घायुत्वाय) चिरकाल जीवन के लिये [अन्तःकरण के भीतर] (बध्नामि) मैं बाँधता हूँ। (कार्शनः) अनेक सुवर्णदि धनों और तेजोंवाला परमेश्वर (त्वा) तुझको (अभि) सब प्रकार (रक्षतु) पाले ॥७॥
भावार्थभाषाः - विश्वकर्मा ब्रह्म ने बुद्धि आदि गुण और मनुष्य शरीर आदि दिव्य पदार्थ रचे हैं, वही सब में रमकर जीवनशक्ति दे रहा है, उसी को मनुष्य हृदय में धारण करके पुरुषार्थ के साथ यशस्वी होकर आनन्द भोगें ॥७॥ इति द्वितीयोऽनुवाकः ॥
टिप्पणी: ७−(देवानाम्) दिव्यगुणानां प्रकाशमानानां पदार्थानां च (अस्थि) असिसञ्जिभ्यां क्थिन्। उ० ३।१५४। इति असु क्षेपे, यद्वा। अस गतिदीप्त्यादानविद्यमानतासु-क्थिन्। प्रदीपकं प्रकाशकम् (कृशनम्) म० १। सूक्ष्मकारकं ब्रह्म (तत्) विस्तृतं ब्रह्म (आत्मन्वत्) आत्मन्-मतुप्। मादुपधायाश्च०। पा० ८।२।९। इति वत्वम्। अनो नुट्। पा० ८।२।१६। इति नुट्। सात्मकं स्थावरजङ्गमात्मकं जगत् (चरति) गच्छति व्याप्नोति (अप्सु) अन्तरिक्षे-निघ० १।३। (तत् ते....... शतशारदाय) व्याख्यातम्-अ० १।३५।१। (तत्) प्रसिद्धम् (ते) तव (बध्नामि) धारयामि (आयुषे) आयाय। लाभाय (वर्चसे) तेजसे। यशसे (बलाय) पराक्रमाय (दीर्घायुत्वाय) चिरकालजीवनाय (शतशारदाय) शतशरदृतुयुक्ताय। शतसंवत्सरयुक्ताय (कार्शनः) कृशनः-मा० १। कृशनं हिरण्यम्-निघ० १।२। रूपम्-निघ० ३।७। तस्येदम्। पा० ४।३।१२०। इति कृशन-अण्। कृशनानि हिरण्यानि सुवर्णादिधनानि तेजांसि च यस्य स कार्शनः (त्वा) प्राणिनम् (अभि) सर्वतः (रक्षतु) पालयतु ॥