नू॒नं तद॑स्य का॒व्यो हि॑नोति म॒हो दे॒वस्य॑ पू॒र्व्यस्य॒ धाम॑। ए॒ष ज॑ज्ञे ब॒हुभिः॑ सा॒कमि॒त्था पूर्वे॒ अर्धे॒ विषि॑ते स॒सन्नु ॥
पद पाठ
नूनम् । तत् । अस्य । काव्य: । हिनोति । मह: । देवस्य । पूर्व्यस्य । धाम । एष: । जज्ञे । बहुऽभि: । साकम् । इत्था । पूर्वे । अर्धे । विऽसिते ससन् । नु ॥१.६॥
अथर्ववेद » काण्ड:4» सूक्त:1» पर्यायः:0» मन्त्र:6
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
सृष्टि विद्या से ब्रह्म का विचार।
पदार्थान्वयभाषाः - (काव्यः) स्तुतियोग्य परमेश्वर [वेनः, म० १] (अस्य) इस (पूर्वस्य) समग्र जगत् के हित करनेवाले (देवस्य) प्रकाशमान सूर्य के (तत्) उस (महः) विशाल (धाम) तेज को (नूनम्) अवश्य (हिनोति) भेजता है। (ससन्) सोता हुआ (एषः) यह परमेश्वर (पूर्वे) समस्त (अर्धे) प्रवृद्ध जगत् के (विषिते) खुलने पर (इत्था) इस प्रकार से [जैसे सूर्य] (बहुभिः साकम्) बहुत [लोकों] के साथ (नु) शीघ्र (जज्ञे) प्रकट हुआ है ॥६॥
भावार्थभाषाः - परमेश्वर प्रलय की अवस्था में सोता हुआ सा था, उसने सृष्टि उत्पन्न करने पर, आकर्षण, आतप वृष्टि आदि द्वारा संसार के हित के लिये सूर्य, पृथिवी, बृहस्पति, शुक्र आदि असंख्य लोक रचे। उस जगदीश्वर का सामर्थ्य विचार कर हम अपना सामर्थ्य बढ़ाकर उपकार करें ॥६॥
टिप्पणी: ६−(नूनम्) निश्चयेन (तत्) प्रसिद्धम् (अस्य) दृश्यमानस्य (काव्यः) ऋहलोर्ण्यत्। पा० ३।१।१२४। इति कबृ स्तुतौ-ण्यत्। बवयोरैक्यम्, यथा, काव्या=बुद्धिः। स्तुत्यः परमेश्वरः (हिनोति) हि गतौ वृद्धौ च। प्रेरयति (महः) विशालम् (देवस्य) प्रकाशमानस्य सूर्यस्य (पूर्वस्य) तस्मै हितम्। पा० ५।१।५। इति पूर्व-यत्। पूर्वाय समस्ताय जगते हितम् (धाम) अ० १।१३।३। प्रभावम्। लोकम्। तेजः (एषः) पुरोवर्त्ती परमेश्वरः (जज्ञे) प्रादुर्बभूव (बहुभिः) असंख्यैर्देवैर्लोकैः (साकम्) सार्धम् (इत्था) था हेतौ च च्छन्दसि। पा० ५।३।२६। इति इदम्-था। अनेन प्रकारेण यथा सूर्यः (पूर्वे) पुर्व पूर्व पूरणे, निवासे-अच्। समस्ते (अर्धे) ऋध वृद्धौ-घञ्। प्रवृद्धे संसारे (विषिते) वि विरोधे। षिञ् बन्धने-क्त। विवृत्ते प्रकाशिते सति (ससन्) षस स्वप्ने-शतृ। निद्रां गच्छन् सन्। प्रलयकालेऽज्ञातदशायां वर्तमान इत्यर्थः ॥
