वांछित मन्त्र चुनें

स बु॒ध्न्यादा॑ष्ट्र ज॒नुषो॒ऽभ्यग्रं॒ बृह॒स्पति॑र्दे॒वता॒ तस्य॑ स॒म्राट्। अह॒र्यच्छु॒क्रं ज्योति॑षो॒ जनि॒ष्टाथ॑ द्यु॒मन्तो॒ वि व॑सन्तु॒ विप्राः॑ ॥

मन्त्र उच्चारण
पद पाठ

स: । बुध्न्यात् । आष्ट्र । जनुष: । अभि । अग्रम् । बृहस्पति: । देवता । तस्य । सम्ऽराट् । अह: । यत् । शुक्रम् । ज्योतिष: । जनिष्ट । अथ । द्युऽमन्त: । वि । वसन्तु । विप्रा: ॥१.५॥

अथर्ववेद » काण्ड:4» सूक्त:1» पर्यायः:0» मन्त्र:5


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

सृष्टि विद्या से ब्रह्म का विचार।

पदार्थान्वयभाषाः - (सः) ईश्वर (जनुषः) उत्पन्न जगत् के (बुध्न्यात्) मूल देश से लेकर (अग्रम् अभि) उपरि भाग तक (आष्ट्र=आष्ट) व्याप्त हुआ। (बृहस्पतिः) बड़े बड़ों का स्वामी (देवता) प्रकाशमान परमेश्वर (तस्य) उस [जगत्] का (सम्राट्) सम्राट् [राजराजेश्वर] है। (यत्) क्योंकि (ज्योतिषः) ज्योतिःस्वरूप परमेश्वर से (शुक्रम्) चमचमाता हुआ (अहः) दिन [सूर्य] (जनिष्ट=अजनिष्ट) उत्पन्न हुआ, (अथ) तभी (विप्राः) इन्द्रियाँ वा बुद्धिमान् लोग (द्युमन्तः) प्रकाशमान् होकर (वि) विविध प्रकार से (वसन्तु) निवास करें ॥५॥
भावार्थभाषाः - परमेश्वर इस सब जगत् के आदि अन्त में विराजमान है, वही सार्वभौम शासक है, उसीने सूर्य को बनाया है जिससे इन्द्रियाँ प्रकाश पाकर अपना व्यापार करती हैं। उसीसे पंडित जन विद्या प्रकाश करके कीर्त्तिमान होते हैं ॥५॥ पं० सेवकलाल कृष्णदास की संहिता और सायणभाष्य में (आष्ट्र) के स्थान में [आष्ट] है ॥
टिप्पणी: ५−(सः) म० ४। ईश्वरः (बुध्न्यात्) म० १। मूले भवाद् देशात् (आष्ट्र) अशू व्याप्तौ-छान्दसो लुङ्। आष्ट। आश्नुत। व्याप्नोत् (जनुषः) म० २। प्रादुर्भूतस्य संसारस्य (अभि) अभितः सर्वतः (अग्रम्) उपरिभागम् (बृहस्पतिः) बृहतां लोकानां स्वामी (देवता) देवात् तल्। पा० ५।४।२७। इति स्वार्थे तल्। देवः। प्रकाशमानः परमेश्वरः (तस्य) जनुषो जगतः (सम्राट्) सत्सूद्विष०। पा० ३।२।६१। इति सम्+राजृ दीप्त्यैश्वर्ययोः क्विप्। मो राजि समः क्वौ। पा० ८।३।२५। इति समो मस्य अनुस्वाराभावः। सम्यक् राजमानः। राजाधिराजः। चक्रवर्त्ती (अहः) दिनम् (यत्) यस्मात् कारणात् (शुक्रम्) अ० २।१२।५। दीप्यमानम् (ज्योतिषः) अ० १।९।१। द्योतमानात् परमेश्वरात् (जनिष्ट) जनी प्रादुर्भावे लुङ्, अडभावः। प्रादुरभूत् (अथ) अनन्तरम्। तस्मात् कारणात् (द्युमन्तः) दीप्तिमन्तः (वि वसन्तु) विविधं वर्तन्ताम् (विप्राः) अ० ३।३।२। विप्राणां व्यापनकर्मणामिन्द्रियाणाम्-निरु० १४।१३। इन्द्रियाणि। मेधाविनः पुरुषाः ॥