वांछित मन्त्र चुनें
274 बार पढ़ा गया

स हि दि॒वः स पृ॑थि॒व्या ऋ॑त॒स्था म॒ही क्षेमं॒ रोद॑सी अस्कभायत्। म॒हान्म॒ही अस्क॑भाय॒द्वि जा॒तो द्यां सद्म॒ पार्थि॑वं च॒ रजः॑ ॥

मन्त्र उच्चारण
पद पाठ

स: । हि । दिव: । स: । पृथिव्या: । ऋतऽस्था: । मही इति । क्षेमम् । रोदसी इति । अस्कभायत् । महान् । मही इति । अस्कभायत् । वि । जात: । द्याम् । सद्म । पार्थिवम् । च । रज: ॥१.४॥

अथर्ववेद » काण्ड:4» सूक्त:1» पर्यायः:0» मन्त्र:4


पण्डित क्षेमकरणदास त्रिवेदी

सृष्टि विद्या से ब्रह्म का विचार।

पदार्थान्वयभाषाः - (सः) उस (सः) विष्णु वा शिव ने (हि) ही (दिवः) सूर्य के और (पृथिव्याः) पृथिवी के (ऋतस्थाः+सन्) सत्य वा कारण में स्थित होकर (मही=महत्यौ) विशाल (रोदसी=०-स्यौ) सूर्य और पृथिवी को (क्षेमम्) क्षेम के साथ (अस्कभायत्) ठहराया। (महान्) उस विशाल परमेश्वर ने (जातः+सन्) प्रकट होकर (मही=महत्यौ) दोनों विशालों, अर्थात् (द्याम्) सूर्यरूप (सद्म) घर (च) और (पार्थिवम्) पृथिवीवाले (रजः) लोक को (वि) अलग-अलग (अस्कभायत्) स्थिर किया ॥४॥
भावार्थभाषाः - सूर्य आदि के (ऋतस्थाः) कारण के कारण परमेश्वर ने सूर्य आदि लोकों को रचा, और परस्पर आकर्षणरूप डोरी लगाकर उनको पृथक्-पृथक् कर दिया। उस परमेश्वर की ऐसी बड़ी महिमा देखकर हम सदा पुरुषार्थ करें ॥४॥
टिप्पणी: ४−(सः) प्रसिद्धः (हि) अवश्यम् (दिवः) द्युलोकस्य। सूर्यस्य (सः) षो अन्तकर्मणि-ड। स्यति नाशयति दुष्टानिति सः। विष्णुः। ईश्वरः। शिवः। (पृथिव्याः) भूलोकस्य (ऋतस्थाः) अञ्चिघृसिभ्यः क्तः। उ० ३।८९। इति ऋ गतौ, हिंसने च-क्त। ऋतं सत्यनाम-निघ० ३।१०। उदकम्-निघ० १।१२। आतो मनिन्क्वनिब्वनिपश्च। पा० ३।२।७४। इति ऋत+ष्ठा गतिनिवृत्तौ-विच्। ऋते सत्ये कारणे स्थितः। कारणस्य कारणमित्यर्थः। (मही) मह पूजायाम्-क्विप्। इयाडियाजीकाराणामुपसंख्यानम्। वा० पा० ७।१।३९। इति ईकारो विभक्तौ। महत्यौ। विशाले। (क्षेमम्) अ० ३।३।५, कुशलम्। (रोदसी) सर्वधातुभ्योऽसुन्। उ० ४।१८९। इति रुधेरसुन्। धस्य दकारः, उगितश्च। पा० ४।१।६। इति ङीप्। वा छन्दसि। पा० ६।१।१०६। इति पूर्वसवर्णः। आभ्यां हि रुद्धानि सर्वभूतानि। रोदस्यौ। द्यावापृथिव्यौ-निघ० ३।३०। (अस्कभायत्) स्कन्भु गतिप्रतिबन्धे-लङ्। छन्दसि शायजपि। पा० ३।१।८४। इति श्नः शायच्। अस्कभ्नात्। स्थापितवान् (महान्) विशालः (मही) पूर्ववत्। महत्यौ। (वि) पृथक्-पृथक् (जातः) प्रादुर्भूतः। (द्याम्) अ० १।२।४। द्योतमानं सूर्यात्मकम् (सद्म) सर्वधातुभ्यो मनिन्। उ० ४।१४५। इति षद्लृ विशरणगत्यवसादनेषु-मनिन्। संग्रामनाम-निघ० २।१७। गृहनाम-निघ० ३।४। उदकनाम-निघ० १।१२। सदनम्। गृहम्। (पार्थिवम्) अ० २।२८।३। भौमम् (रजः) भूरञ्जिभ्यां कित्। उ० ४।२१७। इति रञ्ज रागे-असुन्। रजो रजतेर्ज्योती रज उच्यते उदकं रज उच्यते लोका रजांस्युच्यन्तेऽसृगहनी रजसी उच्येते-निरु० ४।१९। लोकम् ॥