वांछित मन्त्र चुनें
456 बार पढ़ा गया

ब्रह्म॑ जज्ञा॒नं प्र॑थ॒मं पु॒रस्ता॒द्वि सी॑म॒तः सु॒रुचो॑ वे॒न आ॑वः। स बु॒ध्न्या॑ उप॒मा अ॑स्य वि॒ष्ठाः स॒तश्च॒ योनि॒मस॑तश्च॒ वि वः॑ ॥

मन्त्र उच्चारण
पद पाठ

बह्म । जज्ञानम् । प्रथमम् । पुरस्तात् । वि । सीमत: । सुऽरुच: । वेन: । आव: । स: । बुध्न्या: । उपऽमा: । अस्य । विऽस्था: । सत: । च । योनिम् । असत: । च । वि । व: ॥१.१॥

अथर्ववेद » काण्ड:4» सूक्त:1» पर्यायः:0» मन्त्र:1


पण्डित क्षेमकरणदास त्रिवेदी

सृष्टि विद्या से ब्रह्म का विचार।

पदार्थान्वयभाषाः - (वेनः) प्रकाशमान वा मेधावी परमेश्वर ने (पुरस्तात्) पहिले काल में (प्रथमम्) प्रख्यात (जज्ञानम्) उपस्थित रहनेवाले (ब्रह्म) वृद्धि के कारण अन्न को और (सुरुचः) बड़े रुचिर लोकों को (सीमतः) सीमाओं वा छोरों से (वि आवः) फैलाया है। (सः) उसने (बुध्न्याः) अन्तरिक्ष में वर्तमान (उपमाः) [परस्पर आकर्षण से] तुलना करनेवाले (विष्ठाः) विशेष-विशेष स्थानों, अर्थात् (अस्य) इस (सतः) विद्यमान [स्थूल] के (च) और (असतः) अविद्यमान [सूक्ष्म जगत्] के (योनिम्) घर को (च) निश्चय करके (वि वः) खोला है ॥१॥
भावार्थभाषाः - जैसे उत्पन्न होने से पहिले बालक के लिये माता के स्तनों में दूध हो जाता है, ऐसे ही जगत् के जननी जनक परमेश्वर ने सृष्टि से पूर्व प्रत्येक शरीर के लिये प्रभूत (ब्रह्म) अन्न वा पालन शक्ति और पृथिवी, सूर्य, चन्द्रमा, नक्षत्र, आदि को बनाया, जो परस्पर आकर्षण से स्थिर हैं। यही सब लोक कार्य वा मूर्त और कारण वा अमूर्त दो प्रकार के जगत् के भण्डार हैं ॥१॥ यह मन्त्र यजुर्वेद अ० १३ म० ३ और सामवेद पूर्वार्चिक प्र० ४ द० ३ म० ९ में है ॥
टिप्पणी: १−(ब्रह्म) अ० १।८।४। वृद्धिकारणम् अन्नम्-निरु० २।७। (जज्ञानम्) जनी प्रादुर्भावे-शानचि शपः श्लौ सति रूपम्। जायमानम्। दृश्यमानम् (प्रथमम्) अ० १।१२।१। प्रख्यातम्। (पुस्तात्) दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः। पा० ५।३।२७। इति पूर्वशब्दाद् अस्ताति। अस्ताति च। पा० ५।३।४०। इति पूर्वस्य पुरादेशः। अतीते प्रथमे काले वा। सृष्ट्यादौ। (वि) व्यवहिताश्च। पा० १।४।८२। इति व्यवधानम्। (सीमतः) नामन्सीमन्व्योमन्०। उ० ४।१५१। इति षिञ् बन्धने-मनिन्। अपादाने चाहीयरुहोः। पा० ५।४।४५। इति तसि। सीम्नः सीमतः सीमातो मर्यादातः। सीमा मर्यादा विषीव्यति देशाविति-निरु० १।७। सीमभ्यः। लोकमर्यादाभ्यः (सुरुचः) रुच्लृ प्रीतिप्रकाशयोः-क्विप्। सुष्ठु रोचमानान् लोकान्। (वेनः) अ० २।१।१। दीप्यमानः परब्रह्मात्मकः-इति सायणोऽपि। मेधावी-निघ० २।१५। (वि आवः) वृञ् वरणे लुङ्। मन्त्रे घस०। पा० २।४।८०। इति च्लेर्लुक्। हल्ङ्यादिलोपे। छन्दस्यपि दृश्यते। पा० ६।४।७३। इति आडागमः। विवृतानकरोत्। (सः) वेनः। (बुध्न्याः) बन्धेर्ब्रधिबुधी च। उ० ३।५। इति बन्ध बन्धने-नक्, बुधादेशः। बुध्नो मेघो मूलमन्तरिक्षं वा। भवे छन्दसि। पा० ४।४।११०। इति यत्। बुध्नमन्तरिक्षं बद्धा अस्मिन् धृता आप इति वा इदमपीतरद् बुध्नमेतस्मादेव बद्धा अस्मिन् धृताः प्राणा इति योऽहिः स बुध्न्यो बुध्नमन्तरिक्षं तन्निवासात्। निरु० १०।४४। बुध्नेऽन्तरिक्षे भवाः सूर्यचन्द्रपृथिवीतारकादयो लोकाः (उपमाः) आतश्चोपसर्गे। पा० ३।३।१–०६। इति उप+माङ् माने-अङ्। टाप्। उपमीयमानाः। मानं प्राप्ताः। (अस्य) दृश्यमानस्य जगतः। (विष्ठाः) आतश्चोपसर्गे। पा० ३।३।१०६। वि+ष्ठा गतिनिवृत्तौ-अङ्, टाप्। उपसर्गात् सुनोतिसुवति०। पा० ८।३।६५। इति। षत्वम् (सतः) विद्यमानस्य। मूर्तस्य। स्थूलस्य (च) समुच्चये। अवधारणे (योनिम्) अ० १।११।३। गृहम्-निघ० ३।४। आकाशम्। कारणम् (वि वः) वि+वृञ् वरणे-लङ्। मन्त्रे घस०। पा० २।४।८०। इति च्लेर्लुक्। बहुलं छन्दस्यमाङ् योगेऽपि। पा० ६।४।७५। इति अडभावः। विवृतमकरोत् ॥