वांछित मन्त्र चुनें
154 बार पढ़ा गया

यं नि॑द॒धुर्वन॒स्पतौ॒ गुह्यं॑ दे॒वाः प्रि॒यं म॒णिम्। तम॒स्मभ्यं॑ स॒हायु॑षा दे॒वा द॑दतु॒ भर्त॑वे ॥

मन्त्र उच्चारण
पद पाठ

यम् । निऽदधु: । वनस्पतौ । गुह्यम् । देवा: । प्रियम् । मणिम् । तम् । अस्मभ्यम् । सह । आयुषा । देवा: । ददतु । भर्तवे ॥५.३॥

अथर्ववेद » काण्ड:3» सूक्त:5» पर्यायः:0» मन्त्र:3


पण्डित क्षेमकरणदास त्रिवेदी

तेज, बल, आयु, धनादि बढ़ाने का उपदेश।

पदार्थान्वयभाषाः - (यम्) जिस (गुह्यम्) गुप्त, (प्रियम्) प्रिय वा हितकारी (मणिम्) प्रशंसनीय [परमेश्वर] को (देवाः) व्यवहार जाननेवाले देवताओं ने (वनस्पतौ) वननीय अर्थात् सेवनीय गुणों के रक्षक [पुरुष] में (निदधुः) अवश्य दान किया है, (तम्) उस [परमेश्वर] को (अस्मभ्यम्) हमें (देवाः) तेजस्वी महात्मा पुरुष (आयुषा सह) बड़ी आयु के साथ (भर्तवे) हमारे पोषण करने के लिये (ददतु) दान करें ॥३॥
भावार्थभाषाः - सूक्ष्मदर्शी देवताओं ने निश्चय किया है कि वह अन्तर्यामी, सर्वहितकारी परमेश्वर प्रत्येक शुभचिन्तक पुरुष में वर्तमान रहकर साहस बढ़ाता है, उसी परमात्मा का उपदेश विद्वान् महात्मा संसार में करें ॥३॥
टिप्पणी: ३−(यम्)। प्रसिद्धम्। (निदधुः)। नि धाञ् धारणपोषणदानेषु-लिट्, निहितवन्तः। स्थापितवन्तः। निश्चयेन दत्तवन्तः। (वनस्पतौ)। अ० १।१२।३। वन सेवने-अच्। पारस्करादित्वात् सुट्। वन्यते सेव्यते वनः। वनानां वननीयानां गुणानां पत्यौ रक्षके पुरुषे। (गुह्यम्)। तदर्हति। पा० ५।१।६३। इति गुहा+यत्। गुहां गोपनमर्हतीति। यद्वा। शंसि गुहिदुहिभ्यो वा। वार्त्तिकम्, पा० ३।१।१०९। इति गुहू संवरणे-कर्मणि क्यप्। गुहायां हृदये गुप्तम्। (प्रियम्)। प्रीतिकरम्। हितकारम्। (मणिम्)। म० १। प्रशंसनीयं परमेश्वरम्। (तम्)। मणिम्। तस्य परमेश्वरस्य बोधमित्यर्थः। (अस्मभ्यम्)। अस्मदर्थम्। अस्माकं लाभाय। (सह)। सहितम्। (आयुषा)। चिरजीवनेन। (देवाः)। तेजस्विनः पुरुषाः। (ददतु)। डुदाञ् दाने-लोट्। प्रयच्छन्तु। (भर्तवे)। तुमर्थे सेसेनसेऽसेन्क्से०। पा० ३।४।९। इति डुभृञ् धारणपोषणयोः-तवेन्। पालनाय। भरणाय ॥