वांछित मन्त्र चुनें

इन्द्रे॑न्द्र मनु॒ष्याः परे॑हि॒ सं ह्यज्ञा॑स्था॒ वरु॑णैः संविदा॒नः। स त्वा॒यम॑ह्व॒त्स्वे स॒धस्थे॒ स दे॒वान्य॑क्ष॒त्स उ॑ कल्पया॒द्विशः॑ ॥

मन्त्र उच्चारण
पद पाठ

इन्द्रऽइन्द्र । मनुष्या: । परा । इहि । सम् । हि । अज्ञास्था: । वरुणै: । सम्ऽविदान: ।स: । त्वा । अयम् । अह्वत् । स्वे । सधऽस्थे । स: । देवान् । यक्षत् । स: । ऊं इति । कल्पयात् । विश: ॥४.६॥

अथर्ववेद » काण्ड:3» सूक्त:4» पर्यायः:0» मन्त्र:6


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

राजतिलक का उत्सव।

पदार्थान्वयभाषाः - (इन्द्रेन्द्र) हे राजराजेश्वर ! (मनुष्याः=मनुष्यान्) मनुष्यों को (परेहि) समीप से प्राप्त कर, (हि) क्योंकि (वरुणैः) श्रेष्ठ पुरुषों से (संविदानः) मिलाप करता हुआ तू (सम्) यथाविधि (अज्ञास्थाः) जाना गया है। (सः अयम्) सो इस [प्रत्येक मनुष्य] ने (त्वा) तुझको (स्वे सधस्थे) अपने समाज में (अह्वत्) बुलाया है। (सः=सः भवान्) सो आप (देवान्) व्यवहारकुशल पुरुषों का (यक्षत्) सत्कार करें, (सः उ=सः उ भवान्) वही आप (विशः) प्रजाओं को (कल्पयात्) समर्थ करें ॥६॥
भावार्थभाषाः - प्रजापालक राजा विद्वान् चतुर मनुष्यों से मिलता रहे और सुपात्रों को योग्यतानुसार पदाधिकारी करे ॥६॥
टिप्पणी: ६−(इन्द्रेन्द्र)। हे इन्द्राणामिन्द्र। राजराजेश्वर। (मनुष्याः)। मनोर्जातावञ्यतौ षुक् च। पा० ४।१।१६१। इति मनु-यत्-षुक् च। मनुर्मननम्। शसो नत्वाभावश्छान्दसः। मनुष्यजातीन् मनुष्यान्। मननशीलान् प्रजागणान् (परा)। समीपे। (इहि)। गच्छ। प्राप्नुहि। (हि)। यस्मात् कारणात्। (सम्, अज्ञास्थाः)। ज्ञा अवबोधने-लुङि। सम्प्रतिभ्यामनाध्याने। पा० १।३।४६। इत्यात्मनेपदम्। सम्यक्, यथाविधि ज्ञातोऽसि। (वरुणैः)। वरणीयैः। श्रेष्ठैः। वरयितृभिः। (संविदानः)। अ० २।२८।२। सम्+विद ज्ञाने-शानच्। संगच्छमानः। (सः)। स प्रत्येकजनः। (अह्वत्)। आह्वयति स्म। (स्वे)। स्वकीये। (सधस्थे)। सह+ष्ठा गतिनिवृत्तौ-क। सधमादस्थयोश्छन्दसि। पा० ६।३।९६। इति सहस्य सधादेशः। समाजे। (सः)। स भवान् राजा। (देवान्)। व्यवहारिणः पुरुषोत्तमान्। (यक्षत्)। यजतेर्लेटि अडागमः। सिब् बहुलं लेटि। पा० ३।१।३४। इति सिप्। यजतु। सत्करोतु। (उ)। अवधारणे। (कल्पयात्)। कृपू सामर्थ्ये णिचि लेटि आडागमः। कल्पयतु। समर्थयतु। (विशः)। प्रजाः ॥