वांछित मन्त्र चुनें

आ प्र द्र॑व पर॒मस्याः॑ परा॒वतः॑ शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म्। तद॒यं राजा॒ वरु॑ण॒स्तथा॑ह॒ स त्वा॒यम॑ह्व॒त्स उ॑पे॒दमेहि॑ ॥

मन्त्र उच्चारण
पद पाठ

आ । प्र । द्रव । परमस्या: । पराऽवत: । शिवे इति । ते । द्यावापृथिवी इति । उभे इति । स्ताम् । तत् । अयम् । राजा । वरुण: । तथा । आह । स: । त्वा । अयम् । अह्वत् । स: । उप । इदम् । आ । इहि ॥४.५॥

अथर्ववेद » काण्ड:3» सूक्त:4» पर्यायः:0» मन्त्र:5


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

राजतिलक का उत्सव।

पदार्थान्वयभाषाः - (परमस्याः) अत्यन्त (परावतः) दूर देश से (आ, प्र, द्रव) आकर पधार। (ते) तेरेलिये (उभे) दोनों (द्यावापृथिवी=०−व्यौ) सूर्य और पृथिवी (शिवे) मङ्गलकारी (स्ताम्) होवें। (तथा) वैसा ही (अयम्) यह (राजा) राजा (वरुणः) सबमें श्रेष्ठ परमेश्वर (तत्) वह (आह) कहता है। सो (सः अयम्) इस [वरुण परमेश्वर] ने (त्वा) तुझको (अह्वत्) बुलाया है। (सः=सः त्वम्) सो तू (इदम्) इस [राज्य] को (उप) आदरपूर्वक (आ) आकर (इहि) प्राप्त कर ॥५॥
भावार्थभाषाः - प्रजागण श्रेष्ठ राजा को दूर देश से भी बुला लेवें और वह अपने बुद्धिबल से ऐसा प्रबन्ध करे कि राज्यभर में दैवी और पार्थिव शान्ति रहे, अर्थात् अनावृष्टि और दुर्भिक्षादि में भी उपद्रव न मचे और आकाश, पृथिवी और समुद्रादि के मार्ग अनुकूल रहें। यही आज्ञा परमेश्वर ने वेदों में दी है, उसको राजा यथावत् माने ॥५॥
टिप्पणी: ५−(आ)। आगत्य। (प्र द्रव)। द्रु गतौ। प्रकर्षेण प्राप्नुहि। (परमस्याः)। स्याडागमः। अत्यन्तात्। (परावतः)। उपसर्गाच्छन्दसि धात्वर्थे। पा० ५।१।११८। इति उपसर्गसाधने धात्वर्थे स्वार्थे वतिः प्रत्ययः। परावतः प्रेरितवतः परागताद्वा-निरु० ११।४८। दूरदेशात्। (शिवे)। मङ्गलकारिण्यौ। (ते)। तुभ्यम्। (द्यावापृथिवी)। सूर्यभूमी। तत्रस्थाः पदार्था इत्यर्थः। (स्ताम्)। भवताम्। (तत्)। प्रसिद्धं वचनम्। (अयम्)। सर्वव्यापकः। (राजा)। ईश्वरः। समर्थः। (वरुणः)। वरणीयः। परमेश्वरः। (तथा)। तेनैव प्रकारेण। (आह)। ब्रूञ् व्यक्तायां वाचि-लट्। ब्रुवः पञ्चानामादित आहो ब्रुवः। पा० ३।४।८४। इति आहादेशः परस्मैपदे। ब्रवीति। कथयति। (अह्वत्)। ह्वेञ्-लुङ्। आहूतवान्। (उप)। पूजायाम्। (इहि)। इण् गतौ। प्राप्नुहि। अन्यत् सुगमम् ॥