आ त्वा॑ गन्रा॒ष्ट्रं स॒ह वर्च॒सोदि॑हि॒ प्राङ्वि॒शां पति॑रेक॒राट्त्वं वि रा॑ज। सर्वा॑स्त्वा राजन्प्र॒दिशो॑ ह्वयन्तूप॒सद्यो॑ नम॒स्यो॑ भवे॒ह ॥
आ । त्वा । गन् । राष्ट्रम् । सह । वर्चसा । उत् । इहि । प्राङ् । विशाम् । पति: । एकऽराट् । त्वम् । वि । राज ।सर्वा: । त्वा । राजन् । प्रऽदिश: । ह्वयन्तु । उपऽसद्य: । नमस्य: । भव । इह ॥४.१॥
पण्डित क्षेमकरणदास त्रिवेदी
राजतिलक का उत्सव।
