वांछित मन्त्र चुनें
151 बार पढ़ा गया

यस्ते॒ हवं॑ वि॒वद॑त्सजा॒तो यश्च॒ निष्ट्यः॑। अपा॑ञ्चमिन्द्र॒ तं कृ॒त्वाथे॒ममि॒हाव॑ गमय ॥

मन्त्र उच्चारण
पद पाठ

य: । ते । हवम् । विऽवदत् । सऽजात: । य: । च । निष्ट्य: ।अपाञ्चम् । इन्द्र । तम् । कृत्वा । अथ । इमम् । इह । अव । गमय ॥३.६॥

अथर्ववेद » काण्ड:3» सूक्त:3» पर्यायः:0» मन्त्र:6


पण्डित क्षेमकरणदास त्रिवेदी

राजा और प्रजा के धर्म का उपदेश।

पदार्थान्वयभाषाः - (अथ) और (इन्द्र) हे महाप्रतापी राजन् ! (यः) जो (सजातः) सजातीय (च) और (यः) जो (निष्ट्यः) विजातीय पुरुष (ते) तेरे (हवम्) विज्ञापन में (विवदत्) विवाद करे, (तम्) उसको (अपाञ्चम्) बहिष्कृत [देश बाहिर] (कृत्वा) करके (इमम्) इस [विज्ञापन] को (इह) यहाँ पर (अव, गमय) जता दे ॥६॥
भावार्थभाषाः - राजा अपने और पराये का विचार छोड़ पक्षपातरहित होकर शान्तिनाशक विवादी पुरुष को देश बाहिर कर दे और यह विज्ञापन राज्यभर में प्रसिद्ध कर दे, जिससे फिर कोई धर्मविरुद्ध चेष्टा न करे ॥६॥
टिप्पणी: ६−(यः)। यः पुरुषः। (ते)। तव। (हवम्)। ह्वेञ् आह्वाने-अप्। आवाहनम्। विज्ञापनम्। (विवदत्)। वि पूर्वाद् वदेर्लेटि अडागमः। विरुद्धं वदेत्। विवादयेत्। (सजातः)। समानजातीयः। बान्धवः। (निष्ट्यः)। अव्ययात् त्यप्। पा० ४।२।१०४। इत्यत्र निसो गते। इति वार्त्तिकेन-निस्+त्यप्। ह्रस्वात्तादौ तद्धिते। पा० ८।३।१०१। इति षत्वम्। निर्गतो वर्णाश्रमादिभ्यः। म्लेच्छः। चाण्डालः। (अपाञ्चम्)। अप+अञ्चु गतिपूजनयोः-क्विन्। अपगतम्। बहिर्गतम्। बहिष्कृतम्। (इन्द्र)। परमैश्वर्यवन् राजन्। (तम्)। विवादिनम्। (कृत्वा)। विधाय। (अथ)। तदनन्तरम्। (इमम्)। हवम्। (इह)। अस्मिन्। राज्ये। (अव गमय)। बोधय। ज्ञापय ॥