वांछित मन्त्र चुनें
220 बार पढ़ा गया

अ॒द्भ्यस्त्वा॒ राज॒ वरु॑णो ह्वयतु॒ सोम॑स्त्वा ह्वयतु॒ पर्व॑तेभ्यः। इन्द्र॑स्त्वा ह्वयतु वि॒ड्भ्य आ॒भ्यः श्ये॒नो भू॒त्वा विश॒ आ प॑ते॒माः ॥

मन्त्र उच्चारण
पद पाठ

अत्ऽभ्य: । त्वा । राजा । वरुण: । ह्वयतु । सोम: । त्वा । ह्वयतु । पर्वतेभ्य: ।इन्द्र: । त्वा । ह्वयतु । विट्ऽभ्य: । आभ्य: । श्येन: । भूत्वा । विश: । आ । पत । इमा: ॥३.३॥

अथर्ववेद » काण्ड:3» सूक्त:3» पर्यायः:0» मन्त्र:3


पण्डित क्षेमकरणदास त्रिवेदी

राजा और प्रजा के धर्म का उपदेश।

पदार्थान्वयभाषाः - [हे राजराजेश्वर !] (वरुणः) अति श्रेष्ठ (राजा) शासनकर्त्ता पुरुष (त्वा) तुझको (अद्भ्यः) प्राणों के लिये (ह्वयतु) बुलावे, (सोमः) औषधों का रस निकालनेवाला [वैद्यराज] (त्वा) तुझको (पर्वतेभ्यः) [शरीर की] पुष्टियों के लिये (ह्वयतु) बुलावे। (इन्द्रः) बड़ा प्रतापी सेनापति वा निधिपति (त्वा) तुझको (आभ्यः विड्भ्यः) इन प्रजाओं के लिये (ह्वयतु) बुलावे [हे महाराजाधिराज !] (श्यैनः) शीघ्र गतिवाला [वा वाज पक्षी के समान शीघ्र गतिवाला] (भूत्वा) होकर (इमाः) इन (विशः) प्रजाओं में (आ, पत) उड़कर आ ॥३॥
भावार्थभाषाः - राजा वरुण, सोम, इन्द्रादि पदवीवाले बड़े-२ अधिकारी अपने अधिकार की उन्नति के लिये राजाज्ञा का पालन करें और प्रधान राजा अपनी प्रजा के हित का उद्योग सदा करता रहे ॥३॥
टिप्पणी: ३−(अद्भ्यः)। आप्नोतेर्ह्रस्वश्च। उ० २।५८। इति आप्लृ व्याप्तौ-क्विप्। आपः=अन्तरिक्षम्-निघ० १।३। उदकानि-निघ० १।१३। भूस्थानदेवताः, आप आप्नोतेः-निरु० ६।२६। प्राणा जलानि वा-यजु० ४।७। आप्ता, प्रजाः- य० वे० ६।२७, दयानन्दभाष्ये। प्राणेभ्यः। प्रजाभ्यः। (त्वा)। सम्राजम्। (राजा)। अ० १।१०।१। राजृ दीप्तौ, ऐश्वर्ये च कनिन्। ऐश्वर्यवान्। वरुणः। अ० १।३।३। वृञ् वरणे-उनन्। वरणीयः पुरुषः। दुष्टनिवारकः। ह्वयतु। आकारयतु। (सोमः)। अ० १।६।२। षुञ् अभिषवे-मन्। सुनोति यः। ओषधिरसानां निःसारकः। वैद्यराजः। (पर्वतेभ्यः)। भृमृदृशियजिपर्वि०। उ० ३।११०। इति पर्व पूर्त्तौ-अतच्। पूर्त्तिभ्यः। पुष्टिभ्यः। (इन्द्रः)। ऐश्वर्यवान्। सेनापतिः। निधिपतिः। (विड्भ्यः)। अ० १।२१।१। विश प्रवेशने-क्विप्। विशः, मनुष्याः-निघ० २।३। प्रजाः। (आभ्यः)। परिदृश्यमानाभ्यः। (श्येनः)। श्यास्त्याहृञविभ्य इनच्। उ० २।४६। इति श्यैङ् गतौ-इनच्। श्येनासः=अश्वाः-निघ० ४।१४। श्येनः शंसनीयं गच्छति-निरु० ४।२४। श्येन आदित्य आत्मा च भवति श्यायतेर्गतिकर्मणः-निरु० १४।१३। शीघ्रगतिः। श्येनपक्षिवच्छीघ्रगामी। (भूत्वा)। (विशः)। प्रजाः। (आ पत)। शीघ्रमागच्छ (इमाः)। उपस्थिताः ॥