वांछित मन्त्र चुनें

एकै॑कयै॒षा सृष्ट्या॒ सं ब॑भूव॒ यत्र॒ गा असृ॑जन्त भूत॒कृतो॑ वि॒श्वरू॑पाः। यत्र॑ वि॒जाय॑ते य॒मिन्य॑प॒र्तुः सा प॒शून्क्षि॑णाति रिफ॒ती रुश॑ती ॥

मन्त्र उच्चारण
पद पाठ

एकऽएकया । एषा । सृष्ट्या । सम् । बभूव । यत्र । गा: । असृजन्त । भूतऽकृत: । विश्वऽरूपा: । यत्र । विऽजायते । यमिनी । अपऽऋतु: । सा । पशून् । क्षिणाति । रिफती । रुशती॥२८.१॥

अथर्ववेद » काण्ड:3» सूक्त:28» पर्यायः:0» मन्त्र:1


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

उत्तम नियम से सुख होता है।

पदार्थान्वयभाषाः - (एषा) यह [साधारणी सृष्टि] (एकैकया) एक एक (सृष्ट्या) सृष्टि [सृष्टि के परमाणु] से (सम्=संभूय) मिलकर (बभूव) हुई है, (यत्र) जिसमें (भूतकृतः) पृथ्वी आदि भूतों से बनानेवाले (विश्वरूपाः) नाना रूपवाले [ईश्वर गुणों] ने (गाः) भूमि, सूर्य आदि लोकों को (असृजन्त) सृजा है। (यत्र) जहाँ पर (यमिनी) उत्तम नियमवाली [बुद्धि] (अपर्तुः) ऋतु अर्थात् क्रम वा व्यवस्था से विरुद्ध (विजायते) हो जाती है [वहाँ] (सा) वह [व्यवस्था विरुद्ध बुद्धि] (रिफती) पीड़ा देती हुई और (रुशती) सताती हुई (पशून्) व्यक्त वाणीवाले और अव्यक्त वाणीवाले जीवों को (क्षिणाति) नष्ट कर देती है ॥१॥
भावार्थभाषाः - ईश्वर ने अपनी सर्वशक्तिमत्ता से एक-एक परमाणु के संयोग से नियमानुसार यह इतनी बड़ी सृष्टि रची है। जो प्राणी ईश्वरीय नियम तोड़ता है, वह दुःख उठाता है ॥१॥
टिप्पणी: १−(एकैकया) भिन्नभिन्नया। व्यष्टिरूपया (सृष्ट्या) सृज विसर्गे-क्तिन्। सृजमानया (एषा) समष्टिरूपा सृष्टिः (सम्) संभूय (यत्र) यस्मिन् स्थाने। (गाः) गौः, पृथिवी-निघ० १।१। गौरिति पृथिव्या नामधेयं यद् दूरङ्गता भवति यच्चास्यां भूतानि गच्छन्ति-निरु० २।५। गौरित्यादित्यो भवति गमयति रसान् गच्छत्यन्तरिक्षे-निरु० २।१४। भूमिसूर्यादीन् लोकान् (असृजन्त) उदपादयन् (भूतकृतः) डुकृञ् करणे-क्विप्। पृथिवीजलतेजोवायुगमनभूतैर्निर्मातारः (विश्वरूपाः) नानारूपाः परमेश्वरगुणाः (विजायते) विविधं प्रादुर्भवति। (यमिनी) अत इनिठनौ। पा० ५।२।११५। इति यम-इनि। ऋन्नेभ्यो ङीप्। पा० ४।१।५। इति ङीप्। भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने। संबन्धेऽस्तिविवक्षायां भवन्ति मतुबादयः। वा० पा० ५।२।९४। प्रशस्तव्रतयुक्ता, सृष्टिः प्रजा बुद्धिर्वा (अपर्तुः) अपगतो वर्जित ऋतुर्नियमितकालः क्रमो व्यवस्था यस्याः सा तथाभूता (सा) अपर्तुर्बुद्धिः (पशून्) पशवो व्यक्तवाचश्चाप्यक्तवाचश्च-निरु० ११।२९। मनुष्यगवादीन् जीवान् (क्षिणाति) क्षि हिंसायाम्। नाशयति। (रिफनी) रिफ हिंसायाम्-शतृ। पीडां कुर्वती (रुशती) रुश हिंसायाम्-शतृ। दुःखं प्रापयन्ती ॥