वांछित मन्त्र चुनें

उदी॑ची॒ दिक्सोमोऽधि॑पतिः स्व॒जो र॑क्षि॒ताशनि॒रिष॑वः। तेभ्यो॒ नमो॑ऽधिपतिभ्यो॒ नमो॑ रक्षि॒तृभ्यो॒ नम॒ इषु॑भ्यो॒ नम॑ एभ्यो अस्तु। यो॒स्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मस्तं वो॒ जम्भे॑ दध्मः ॥

मन्त्र उच्चारण
पद पाठ

उदीची । दिक् । सोम: । अधिऽपति: । स्वज: । रक्षिता । अशनि: । इषव: । तेभ्य: । नम: । अधिपतिऽभ्य: । नम: । रक्षितृऽभ्य: । नम: । इषुऽभ्य: । नम: । एभ्य: । अस्तु । य: । अस्मान् । द्वेष्टि । यम् । वयम् । द्विष्म: । तम् । व: । जम्भे । दध्म: ॥२७.४॥

अथर्ववेद » काण्ड:3» सूक्त:27» पर्यायः:0» मन्त्र:4


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

सेना व्यूह का उपदेश।

पदार्थान्वयभाषाः - (उदीची=०-च्याः) उत्तर वा बाईं ओर वाली (दिक्=दिशः) दिशा का (सोमः) प्रेरक वा उत्तेजक [सोम पद वाला सेनापति] (अधिपतिः) अधिष्ठाता हो, (स्वजः) आप उत्पन्न होनेवाला वा बहुत दौड़नेवाले साँप [के समान सेना व्यूह] (रक्षिता) रक्षक होवे, और (अशनिः) बिजुली (इषवः) बाण होवें। (तेभ्यः अधिपतिभ्यः) उन अधिष्ठाताओं और... [म० १] ॥४॥
भावार्थभाषाः - इस दिशा में (सोम) नाम अधिकारी सेनापति (स्वज) नाम सेना व्यूह रचकर बिजुली के अस्त्र शस्त्रों से शत्रुओं को जीतकर.... [म० १] ॥४॥
टिप्पणी: ४−(उदीची) उदीच्याम्-सू० २६ म० ४। तत्रवद् रूपसिद्धिः। उदीच्याः। उत्तरभागस्थितायाः। वामभागवर्त्तमानायाः (सोमः) अ० ३।१६।१। षू प्रेरणे-मन्, तुदादिः। प्रेरकः। उत्तेजकः सेनापतिः (स्वजः) स्व+जः। यद्वा। सु+अज गतिक्षेपणयोः-अच्। स्वयमेवोत्पन्नः स्वजनशीलो वा सर्पः स्वजः-इति सायणः। तथाविधसर्पवत् सेनाव्यूहः (अशनिः) अर्त्तिसृधृधम्यम्यश्य०। उ० २।१०२। इति अश भक्षणे; वा अशू व्याप्तौ-अनि। विद्युद्विद्या। अन्यद् गतम् ॥