वांछित मन्त्र चुनें

प्राची॒ दिग॒ग्निरधि॑पतिरसि॒तो र॑क्षि॒तादि॒त्या इष॑वः। तेभ्यो॒ नमोऽधि॑पतिभ्यो॒ नमो॑ रक्षि॒तृभ्यो॒ नम॒ इषु॑भ्यो॒ नम॑ एभ्यो अस्तु। यो॒स्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मस्तं वो॒ जम्भे॑ दध्मः ॥

मन्त्र उच्चारण
पद पाठ

प्राची । दिक् । अग्नि: । अधिऽपति: । असित: । रक्षिता । आदित्या: । इषव: । तेभ्य: । नम: । अधिपतिऽभ्य: । नम: । रक्षितृऽभ्य: । नम: । इषुऽभ्य: । नम: । एभ्य: । अस्तु । य: । अस्मान् । द्वेष्टि । यम् । वयम् । द्विष्म:। तम् । व: । जम्भे । दध्म: ॥२७.१॥

अथर्ववेद » काण्ड:3» सूक्त:27» पर्यायः:0» मन्त्र:1


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

सेना व्यूह का उपदेश।

पदार्थान्वयभाषाः - (प्राची=प्राच्याः) पूर्व वा सन्मुखवाली (दिक्=दिशः) दिशा का (अग्निः) अग्नि [अग्नि विद्या में निपुण सेनापति] (अधिपतिः) अधिष्ठाता हो, (असितः) कृष्ण सर्प [के समान सेना व्यूह] (रक्षिता) रक्षक हो, (आदित्याः) सूर्य से संबन्धवाले (इषवः) बाण हों। (तेभ्यः) उन (अधिपतिभ्यः) अधिष्ठाताओं और (रक्षितृभ्यः) रक्षकों के लिये (नमो नमः) बहुत बहुत सत्कार वा अन्न और (एम्यः) इन (इषुभ्यः) बाणों [बाणवालों] के लिये (नमोनमः) बहुत-२ सत्कार वा अन्न (अस्तु) होवे (यः) जो [वैरी] (अस्मान्) हमसे (द्वेष्टि) वैर करता है, [अथवा] (यम्) जिस [वैरी से] (वयम्) हम (द्विष्मः) वैर करते हैं, [हे शूरो] (तम्) उसको (वः) तुम्हारे (जम्भे) जबड़े में (दध्मः) हम धरते हैं ॥१॥
भावार्थभाषाः - (आदित्याः इषवः) बाण अर्थात् सब अस्त्र शस्त्र सूर्य वा बिजुली वा अग्नि के प्रयोग से चलनेवाले हों। शत्रु दो प्रकार के होते हैं, एक वे जो अपनी दुष्टता से धर्मात्माओं को बुरा जानते हैं, दूसरे वे जिनको धर्मात्मा लोग उनकी दुष्टता के कारण बुरा समझते हैं। उक्त दिशा में (अग्नि) पदवाला सेनापति (असित) नाम काले साँप के समान सेना व्यूह से ऐसे दुष्टों को जीतकर सैनिकों सहित यशस्वी होकर धर्मात्माओं की रक्षा करे ॥१॥
टिप्पणी: १−प्राची। प्राच्याम्। सू० २६ मा० १। इत्यत्रोक्तप्रकारेण रूपसिद्धिः। सुपां सुलुक्०। पा० ७।१।३९। इति विभक्तिलोपः। प्राच्याः। पूर्वायाः। अभिमुखीभूतायाः (दिक्) विभक्तिलोपः। दिशः (अग्निः) अग्निविद्यायां कुशलः पुरुषः (अधिपतिः) अधिष्ठाता। स्वामी (असितः) अ० १।२३।३। अबद्धः। कृष्णवर्णः सर्पः-इति सायणः। कृष्णसर्पवत् सेनाव्यूहः (रक्षिता) रक्षकः (आदित्याः) अ० १।९।१। दित्यदित्यादित्य० पा० ४।१।५८। इति आदित्य-ण्य प्रत्ययः। आदित्यस्य सूर्यस्य सम्बन्धिनः। सूर्यविद्युदग्निप्रयोगेण सिद्धाः (इषवः) अ० १।१३।४। आयुधानि-इति सायणः। इषुरीषतेर्गतिकर्मणो वधकर्मणो वा-निरु० ९।१८। बाणाः। अस्त्रशस्त्राणि। इषुधारिणः। शूराः (तेभ्यः) दूरस्थेभ्यः। (नमः नमः) अतिशयेन सत्कारोऽन्नं वा। नमः=अन्नम्-निघ० २।८। (एभ्यः) समीपस्थेभ्यः (यः) दुष्टः। शत्रुः (द्वेष्टि) बाधते (द्विष्मः) बाधामहे (वः) युष्माकम्। शूराणाम् (जम्भे) जभि नाशे-घञ्। हनौ [Jaw] (दध्मः) धारयामः। अन्यत् सुगमम् ॥