वांछित मन्त्र चुनें

उदुत्सं॑ श॒तधा॑रं स॒हस्र॑धार॒मक्षि॑तम्। ए॒वास्माके॒दं धा॒न्यं॑ स॒हस्र॑धार॒मक्षि॑तम् ॥

मन्त्र उच्चारण
पद पाठ

उत् । उत्सम् । शतऽधारम् । सहस्रऽधारम् । अक्षितम् । एव । अस्माक । इदम् । धान्यम् । सहस्रऽधारम् । अक्षितम् ॥२४.४॥

अथर्ववेद » काण्ड:3» सूक्त:24» पर्यायः:0» मन्त्र:4


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

धान्य बढ़ाने के कर्म का उपदेश।

पदार्थान्वयभाषाः - (इमाः) यह (याः) जो (मानवीः=०-व्यः) मानुषी (पञ्च) पाँच भूत [पृथिवी आदि] से सम्बन्धवाली (कृष्टयः) प्रजायें (पञ्च प्रदिशः) पाँच फैली हुई दिशाओं में हैं, वे प्रजायें (शापम्) अनिष्ट वा मलिनता हटाकर (इह) यहाँ पर (स्फातिम्) बढ़ती को (समावहान्) यथावत् लावें, और (नदीः इव नद्यः इव) जैसे नदियाँ (वृष्टे) बरसने पर [अनिष्ट वा मलिनता हटाकर] (शतधारम्) सैकड़ों धाराओंवाले और (सहस्रधारम्) सहस्रों विधि से धारण करनेवाले, (अक्षितम्) अक्षय (उत्सम्) सींचने के साधन [झरना, कूप आदि] को (उत्=उदावहन्ति) निकालती हैं (एव=एवम्) ऐसे ही (अस्माक=अस्माकम्) हमारा (इदम्) यह (धान्यम्) धान्य (सहस्रधारम्) सहस्रों प्रकार से धारण करनेवाला और (अक्षितम्) अक्षय [होवे] ॥३, ४॥
भावार्थभाषाः - मनुष्य खेती व्यापार आदि द्वारा पूर्वादि चार दिशाओं और ऊपर नीचे की दिशा [वायु मण्डल वा पाताल] से बहुत धन प्राप्त करें और अनेक प्रयोगों से उसकी यथावत् वृद्धि करें, जैसे बरसा का जल नदियों में एकत्र होकर और झरनों, कूपों, नालियों से खेती आदि में पहुँचकर दरिद्रता आदि मिटाकर संसार को लाभ पहुँचाता है ॥३, ४॥ मन्त्र ३ व ४ युग्मक छन्द हैं ॥ ३, ४−(इमाः) परिदृश्यमानाः। (याः) कृष्टयः। (पञ्च) पञ्चसंख्याकाः। (प्रदिशः) कालाध्वनोरत्यन्तसंयोगे। पा० २।३।५। इति द्वितीया। चतस्रः प्राच्याद्याः, पञ्चमो ध्रुवा दिग्, ऊर्ध्वा दिग्वा। (मानवीः) अ० ३।२१।५। मानव-ङीप्। मानव्यः मानुष्यः। (पञ्च) पञ्चभूतसंबन्धिन्यः (कृष्टयः) क्तिच्क्तौ च संज्ञायाम्। पा० ३।३।१७४। इति कृष विलेखने-क्तिच्। प्रजाः। मनुष्याः-निघ० २।३। (वृष्टे) भावे-क्त। वर्षणे सति। (शापम्) अकथितं च। पा० १।४।५१। इति अपादाने द्वितीया। शापात्। शापम् अनिष्टं मलं वा वर्जयित्वा। (नदीः इव) नद्यो यथा (इह) अत्र। (स्फातिम्) स्फायी वृद्धौ-क्तिन्। लोपो व्योर्वलि। पा० ६।१।६६। इति यलोपः। धनधान्यवृद्धिम्। (समावहान्)। सम्+आङ्+वहेर्लेटि आडागमः। सम्यग् आनयन्तु। बहेर्द्विकर्मकत्वात्, शापं स्फातिम्, इत्येतयोः कर्मत्वम्। (उत्) तृतीयमन्त्रसंबन्धात्, उत्+आङ्+वहन्तु। (उत्सम्) अ० १।१५।३। सेचनसाधनम्। निर्झरम्। कूपम्। (शतधारम्) बहुधारायुक्तम्। (सहस्रधारम्) बहु प्रकारेण धारकम् (अक्षितम्) अक्षीणम्। अनश्वरम्। (एव) एवम् (अस्माक) मलोपश्छान्दसः। अस्माकम् (इदम्) परिदृश्यमानम्। अन्यद् गतम् ॥
टिप्पणी: ३, ४−(इमाः) परिदृश्यमानाः। (याः) कृष्टयः। (पञ्च) पञ्चसंख्याकाः। (प्रदिशः) कालाध्वनोरत्यन्तसंयोगे। पा० २।३।५। इति द्वितीया। चतस्रः प्राच्याद्याः, पञ्चमो ध्रुवा दिग्, ऊर्ध्वा दिग्वा। (मानवीः) अ० ३।२१।५। मानव-ङीप्। मानव्यः मानुष्यः। (पञ्च) पञ्चभूतसंबन्धिन्यः (कृष्टयः) क्तिच्क्तौ च संज्ञायाम्। पा० ३।३।१७४। इति कृष विलेखने-क्तिच्। प्रजाः। मनुष्याः-निघ० २।३। (वृष्टे) भावे-क्त। वर्षणे सति। (शापम्) अकथितं च। पा० १।४।५१। इति अपादाने द्वितीया। शापात्। शापम् अनिष्टं मलं वा वर्जयित्वा। (नदीः इव) नद्यो यथा (इह) अत्र। (स्फातिम्) स्फायी वृद्धौ-क्तिन्। लोपो व्योर्वलि। पा० ६।१।६६। इति यलोपः। धनधान्यवृद्धिम्। (समावहान्)। सम्+आङ्+वहेर्लेटि आडागमः। सम्यग् आनयन्तु। बहेर्द्विकर्मकत्वात्, शापं स्फातिम्, इत्येतयोः कर्मत्वम्। (उत्) तृतीयमन्त्रसंबन्धात्, उत्+आङ्+वहन्तु। (उत्सम्) अ० १।१५।३। सेचनसाधनम्। निर्झरम्। कूपम्। (शतधारम्) बहुधारायुक्तम्। (सहस्रधारम्) बहु प्रकारेण धारकम् (अक्षितम्) अक्षीणम्। अनश्वरम्। (एव) एवम् (अस्माक) मलोपश्छान्दसः। अस्माकम् (इदम्) परिदृश्यमानम्। अन्यद् गतम् ॥